________________
सम्मतितांख्यप्रकरणस्यतधूमाल्लिङ्गाल्लिङ्गिप्रत्ययेन प्रत्युक्तम् ॥गत्वादिविशिष्टस्य गादेवाचकत्वमयुक्तम् । गत्वादेः सामान्यस्यासम्भवात् ; तदनन्तरं निराकृतम् । यत्पुनरुक्तम् । गादिव्यक्तिमानं गत्वादिविशिष्टं नोपपद्यते, तस्य सामान्यविशेषयोरन्यतरत्रान्तर्भाव एकत्र वाचकस्य नित्यत्वप्रसङ्गात्, अन्यत्रानन्वयात् वाचकत्वायोगात् । एतदसारम् । व्यक्तिमात्रस्य सामान्यविशिष्टस्य पूर्व वाचकत्वव्यवस्थापनात् । ता एव व्यक्तयोऽविवक्षितासाधारणविशेषाः सामान्यविशिष्टव्यक्तिमात्रशब्दाभिधेयाः । किंच । किं वर्णानां नित्यत्वमभ्युपगम्यते, उत वर्णक्रमस्य, आहोस्वित् वर्णाभिव्यक्तेः, किंवा तत्क्रमस्य । तत्र न तावदभिव्यक्तेनित्यत्वम् । तस्या निषिद्धत्वात् । अनिषेधेऽपि पुरुषप्रयत्नप्रेरितवायुजन्यत्वेनापौरुषेयत्वासम्भवात् । नाप्यभिव्यक्तिकमस्य । अभिव्यक्त्यभावे तत्क्रमस्याप्यभावात् । तत्पौरुषेयत्वे तस्यापि पौरुषेयत्वात् ॥ अवं पौरुषेयत्वस्यानादिसिद्धस्य केनचिदादावकृतस्य सर्वपुरुषैः परिग्रहात्, पुरुषाणां खातन्त्र्याभावादपौरुषेयत्वमुच्यते ।
तदुक्तम्:"वक्ता नहि क्रमं कश्चित्वातन्त्र्येण प्रपद्यते । यथैवास्य परैरुक्तः तथैवैनं विवक्षति ॥ १॥ परोऽप्येवं ततश्चास्य संबन्धवदनादिता । तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता ॥ २॥ .
यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता” ॥ इति । एतदसंबद्धम् । अपौरुषेयत्वप्रतिपादकप्रमाणस्यासिद्धत्वात् ॥ अथ वर्णकमस्यापौरुषेयत्वमभ्युपगम्यते । तदप्यचारु । वर्णानां नित्यत्वेन कालकृतस्य तन्तुपटवद्; व्यापकत्वेन देशकृतस्य मुक्तावलीमुक्ताफलमालावत् ; अस्यासंभवात् ॥ अथ वर्णानामपौरुषेयत्वमङ्गीक्रियते । तदप्यसङ्गतम् । ‘य एव लौकिकाः शब्दास्त एव वैदिकाः' इत्यभिधानात् वेदवल्लोकायतशास्त्रमपि प्रमाणं स्यादिति तदर्थानुष्ठानं भवतः प्रसज्यते । लौकिके च वाक्ये यो विसंवादः कचिदुपलभ्यते, स भवन्नीत्या न प्राप्नोति॥ अथ लौकिकवैदिकशब्दयोर्भेदोऽभ्युपगम्यते । तथा रागादिसमन्वितत्वाभ्युपगमात्सर्वपुरुषाणां, न तेषां यथावस्थितवेदार्थ