________________
तत्त्वबोधविधायिनी व्याख्या । न्तरस्यासत्त्वेन पुनर्निष्क्रमणासम्भवात् । नचैकगोशब्दापेक्षयाऽवान्तरवर्णनानात्वकल्पनायामस्ति प्रयोजनम् । एकस्मादेव गोशब्दादर्थप्रतीतेः । अतो गकारादिवर्णनानात्वमदृष्टं परिकल्पनीयम् । न चैकस्यैव गोशब्दावयविनः सर्वासु दिक्षु गमनं युज्यत इत्यनेकादृष्टपरिकल्पना स्यात् ।
तदुक्तम् :"शब्दस्याऽऽगमनं तावददृष्टं परिकल्प्यते । मूर्तिस्पर्शादिमत्त्वं च तेषामभिभवः सताम् ॥ १ ॥ त्वगग्राह्यत्वमन्ये च सूक्ष्मा भागाः प्रकल्पिताः । तेषामदृश्यमानानां कथं च रचनाकमः ॥ २ ॥ कीदृशाद्रचनाभेदावर्णभेदश्च जायताम् । द्रवत्वेन विना चैषां संश्लेषः कल्प्यतां कथम् ॥ ३ ॥ आगच्छतां च विश्लेषो न भवेद्वायुना कथम् । लघवोऽवयवा ह्येते निबद्धा नच केनचित् ॥ ४ ॥ वृक्षाद्यभिहतानां तु विश्लेषो लोष्टवद्भवेत् । एकश्रोत्रप्रवेशे च नान्येषां च पुनः श्रुतिः ॥ ५ ॥ नचावान्तरवर्णानां नानात्वस्यास्ति कारणम् ।
नचैकस्यैव सर्वासु गमनं दिक्षु युज्यते॥ ६ ॥ इति । एतद्भवत्पक्षेऽपि सर्व समानम् । तथाहि । वायोरागमनं तावददृष्टं परिकल्प्यत इत्याद्यपि वक्तुं शक्यत एव । केवलं वर्णस्थाने वायुशब्दः पठनीय इति कथं न भवत्पक्षेऽपि भूयस्यदृष्टपरिकल्पना । अपि च । भवत्पक्षेऽयमपरः परिकल्पनागौरवदोषः सम्पद्यते । वर्णस्य पूर्वापरकोट्योः सर्वत्र देशेऽनुपलभ्यमानस्य सत्त्वं परिकल्पनीयम्; तस्य चावारकाः स्तिमिता वायवः प्रमाणतोऽनुपलभ्यमानाः, तदपनोदकाश्चान्ये तथाभूता एव व्यञ्जकाः परिकल्पनीयाः; तेषां चोभयरूपाणामपि शक्तिनानात्वं परिकल्पनीयम् । अस्मत्पक्षे तत्सर्वमपि नास्तीति कथमदृष्टपरिकल्पना गुर्वी । पौद्गलिकत्वं च शब्दस्य,अम्बरगुणप्रतिषेधप्रस्तावेप्रमाणोपपन्नं करिष्यत इत्यास्तां तावत् ॥ यत्पुनर्धान्तत्वं शब्दादर्थप्रत्ययस्याभिहितम् ;