Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown
View full book text
________________
सम्मतितर्काख्यप्रकरणस्य -
न्तीयमुपरिनिश्चितरूपा बाधाऽयोगात् प्रमाणम् । सा चाक्षाग्वयव्यतिरेकानुसारि - तया प्रत्यक्षम् । तथाहि । विस्फारितलोचनस्य घटपटादिषु रूपमारूढां सत्तामुल्लिखन्ती सत्सदिति प्रतीतिः, तदभावे च न भवतीति तदन्वयव्यतिरेकानुविधायितया कथं न प्रत्यक्षम् ? । तस्माद्बहुषु व्यावृत्तेषु तुल्याकारा बुद्धिरेकताम वस्यति । यच्चात्र विभिन्नेषु घटादिषु प्रतिनियतमेकमनुगतखरूपं सैव जातिः, अथ व्यक्तिव्यतिरिक्ता जातिरुपेयते, न च व्यक्तिदर्शनवेलायां तद्रूपसंस्पर्शविषयव्यतिरिक्तवपुर परमनुगतिरूपं प्रतिभाति, तत्कथं तत् सामान्यम् ? । नैतदस्ति । यस्मादगृहीतसङ्केतस्यापि तनुभृतः प्रथममुद्भाति वस्तु, द्वितीये तुल्यरूपतामनुसरति बुद्धि:, कचिदेव न सर्वत्र । प्रतिपत्त्यन्यता च सर्वत्र भेदव्यवहार - निबन्धनम्: तुल्यदेशकालेऽपि रूपरसादौ च प्रतिपत्त्यन्यता जातावपि विद्यत इति कथं न सा भिन्नास्ति ? । तथाहि । व्यक्तया कारविवेकेन विशदमनुगतिरूपता भाति, तद्विवेकेन च व्यावृत्तरूपतेति कथं व्यक्तिखरूपाद्भिन्नावभासिनी जातिभिंन्ना नाभ्युपगमविषया ? । अथैकेन्द्रियावसेयत्वात् जातिव्यक्त्योरेकता; रूपरसादौ तु भिन्नेन्द्रियग्राह्यत्वाद्भेदः । तदप्यसङ्गतम् । यतः एकेन्द्रियग्राह्यमपि वातातपादिकं समानदेशं च भिन्नं प्रतिभातीति भिन्नवपुरभ्युपेयते, तथा प्रतिनियतेन्द्रियविषयमपि जातिव्यक्तिद्वयं भिन्नं, भिन्नप्रतिभासादेव । तथाहि । घटमन्तरेणापि पटग्रहणे सत्सदिति पूर्वप्रतिपन्ना सत्ताऽवगतिर्दृष्टा, यदि तु व्यक्तिरेव सती न जातिः, तत्सत्त्वेऽपि तदव्यतिरिक्ता च तथा सति व्यक्तिरूपवत्तदनुगतिरपि व्यक्त्यन्तरे प्रसज्येत । प्रतीयते च सद्रूपता युगपद् घटपटादिषु परस्परविविक्ततनुष्वपि सर्वदा । तेनैकरूपैव जातिः, प्रत्यक्ष तथाभूताया एव तस्याः प्रतिभासनात् ; शब्दलिङ्गयोरपि तस्यामेव संबन्धग्रहणमिति ताभ्यामपि साप्रतीयते । तदेवं प्रत्यक्षादिप्रमाणावसेयत्वात्सत्तायाः न तन्निराकरणाय प्रसङ्गसाधनानुमानप्रवृत्तिरिति । असदेतत् । यतो न व्यक्तिदर्शनवेलायां खरूपेण बहिग्रह्याकारतया प्रतीतिमवतरन्ती जातिरुद्भाति । नहि घटपटवस्तुद्वय प्रतिभाससमये तदैव तद्व्यवस्थितमूर्त्तिभिन्नाऽभिन्ना वा जातिराभाति । तदाकारस्यापरस्य ग्राह्यतया बहिस्तत्राप्रतिभासनात्, बहिर्ग्राह्यावभासश्व बहिरर्थव्यवस्थाकारी, नान्त
|
१९४

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200