Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 155
________________ तत्त्वबोधविधायिनी व्याख्या। तदोपादानाभिमतं ज्ञानं द्विस्वभावमासज्यते; यथा चोपादानसहकारिस्वभावरूपद्वययोगस्तथा त्रैलोक्यान्तर्गतान्यजन्यकार्यान्तरापेक्षया तस्याजनकत्वमपि स्वभावः; ततश्चैकत्वं ज्ञानक्षणस्य यथोपादानसहकार्यजनकत्वानेकविरुद्धधर्माध्यासितस्याभ्युपगम्यते, तथा हर्षादिविवर्त्तात्मनस्तत्सन्तानस्याप्यभ्युपगन्तव्यम् । अथोपादानसहकार्यजनकलादयो धर्मास्तत्र कल्पनाशिल्पिकल्पिताः, एकलं तु तस्य स्वसंवेदनाध्यक्षसिद्धमिति न तैस्तदपनीयत इति मतिः; तात्मनोऽप्येकत्वं सन्तानशब्दाभिधेयतया प्रसिद्धस्य स्वसंवेदनाध्यक्षसिद्धस्य क्रमवद्धपविषादादिकार्यदर्शनाऽनुमीयमानं तदपेक्षजनकत्वाजनकत्वधर्मापनेयं न स्यात्; तन्न खगतसकलधर्माधायकत्वमुपादानत्वं भवदभ्युपगमेन सङ्गतम् । नापि सन्ताननिवृत्त्या कार्योत्पादकखभावम् ; तथाऽभ्युपगमे ज्ञानसन्ताननिवृत्तेः परलोकाभावप्रसङ्गः । अथ समनन्तरप्रत्ययत्वमुपादानवमुच्यते । तथाहि । समस्तुल्योऽनन्तरोऽव्यवहितः प्रत्ययो जनकः, नचैतद्भिन्नसन्तानादिति न तत्रानुसन्धानसंभवः । नन्वत्रापि समलं कार्येण यधुपादानलं प्रत्ययस्य, तदा वक्तव्यम् । किं सर्वथा समलम्, उतैकदेशेन ? । यदि सर्वथा। तदसत् । कार्यकारणयोः सर्वथा तुल्यले यथा कारणस्य प्राग्भाविलं, तथा कार्यस्यापि स्यात् । तथाच कार्यकारणयोरेककालखात् न कार्यकारणभावः । नोककालयोः कार्यकारणभावः, सव्येतरगोविषाणवत् । तथा कारणाभिमतस्यापि स्वकारणकालता, तस्यापि स्वकारणकालतेति सकलसन्तानशून्यमिदानीं समस्तं जगत् स्यात् । अथ कथश्चित्समानता । तथा सति योगिज्ञानस्याप्यस्मदादिज्ञानालम्बनस्य तदाकारत्वेनैकसन्तानवं स्यादित्यादि दूषणं पूर्वोक्तमेव । अथानन्तरत्वमुपादानत्वम् । ननु क्षणिकैकान्तपक्षे सर्वजगत्क्षणानन्तरं विवक्षितक्षणे जगत् जायत इति सर्वेषामुपादानत्वमित्येकसन्तानत्वं जगतः। देशानन्तर्य तत्रानुपयोगि । देशव्यवहितस्यापीहजन्ममरणचित्तस्य भाविजन्मचित्तोपादानत्वाभ्युपगमात् । प्रत्ययत्वं तु नोपादानत्वम् । सहकारित्वेऽपि प्रत्ययत्वस्य भावात् । तन्न समनन्तरप्रत्ययत्वमप्युपादानत्वम् । नच प्रतिक्षणविशरारुषु भावेषु कथञ्चिदेकान्वयमन्तरेण जनकत्वमपि संगच्छते, किमुतोपादानादिविभाग इति क्षण

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200