Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 156
________________ सम्मतितर्द्धाख्यप्रकरणस्व भङ्गभङ्गप्रतिपादनावसरेऽभिधास्यामः । अत्र केचित् तुल्येऽपि जनकले स्वपरस• न्तानगतयोर्विज्ञानयोरुपादानत्वे कारणमाहुः । वसन्ततौ चेतितं ज्ञानं ज्ञानान्तरजनकं, नत्वेवं परसन्ततौ; अतो जनकत्वव्यतिरिक्तस्योपादानकारणत्वे निमित्तस्य संभवादित्थंभूताद्धेतुफलभावाद्व्यवस्था । अस्यापि व्यवस्थानिमित्तत्वमयुक्तम् ; नहि ज्ञानमसंवेदितं व्यवस्थां लभते । संवेदनं हि ज्ञानानां स्वत एवेष्यते । तच्च वसन्ततिपतित इव परसन्ततिपतितेऽपि तुल्यम् । ज्ञानान्तरखेचत्वं तु न शाक्यैरभ्युपगम्यते ज्ञानस्य नियमत इति नायमप्यतिप्रसङ्गपरिहारः। न च खसन्ततावपि स्वसंविदितज्ञानपूर्वकता ज्ञानस्य सिद्धा । मूर्छाद्यवस्थो'तरकालभाविज्ञानस्य तथात्वानवगमात् । यतो विज्ञानपूर्वकत्वेऽपि तत्र विप्रतिपत्तावादितः कुतः पुनः स्वसंविदितज्ञानपूर्वकत्वम् ? । तत्रैतत् स्यात्, विज्ञानपूर्वकत्वस्यानुमानेन निश्चयात् कथं विप्रतिपत्तिः । तच्च दर्शितम्; 'तज्जातीयात् तज्जातीयो - त्पत्तिः' इति । एतदसत् । अतज्जातीयादपि भावानामुत्पत्तिदर्शनाद्, यथा धूमादेः । येऽप्यत्राहुः । सदृशतादृशभेदेन भावानां विजातीयोत्पत्त्यसंभवादेतददूषणम् । तेषामपि सदृशतादृशविवेको नार्वाग्रहक्प्रमातृगोचरः । कार्यनिरूपणायामपि तयोर्विवेको दुर्लभः; तस्मादयमपरिहारः । यैः पुनरुच्यते । सर्वस्य समानजातीयादुपादानात्तदुत्पत्तिः । आद्यस्यापि धूमक्षणस्योपादानत्वेन व्यवस्थापिताःकाष्ठान्तर्गता अणवस्तत्रापि सजातीयत्वं न विद्मः । रूपादीनां हि रूपादिपूर्वकत्वेन वा सजातीयत्वम्, धूमत्वोपलक्षितावयवपूर्वकत्वेन वा । प्राच्ये विकल्पे, नेदानीं विजातीयादुत्पत्तिर्गेरप्यश्वादुपजायमानस्य । उत्तरविकल्पेऽपि, काष्ठान्तर्गतानामवयवानां धूमत्वं लौकिकं, पारिभाषिकं वा । परिभाषायास्तावदयमविषयः । लोकेऽपि तदाकारव्यवस्थितानामवयवानां नैव धूमत्वव्यवहारः । तार्किकेणापि लोकप्रसिद्धव्यवहारानुसरणं युक्तं कर्तुम् । तस्मान्न सजातीयादुत्पत्तिः । यच्चात्रोच्यते । तस्यामवस्थायां विज्ञानाभावे तदवस्थातः प्रच्युतस्योत्तकालमीदृशी संवित्तिर्न भवेन्न मया किञ्चिदपि चेतितं स्मृतिर्हीयमानानुभवपूविका, अतो येनानुभवेन सता न किञ्चिचेत्यते, तस्यामवस्थायां तस्यावश्यं सद्भावो ऽभ्युपगन्तव्यः । एतत् सुव्याहृतम् । न किञ्चिच्चेतितं मया इति ब्रुवता वस्त्ववे १५६

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200