Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 158
________________ १५८ सम्मतिताख्यप्रकरणस्यवेत्ति । तदा विज्ञानानभ्युपगमात्। तदवगमे च तस्यैव ज्ञानलात्, न तदवस्थायां तदभावः। नापि पार्श्वे स्थितोऽन्यस्तदभावं वेत्ति। कारणव्यापकस्वभावानुपलब्धीनां विरुद्धविधेर्वाऽत्र विषयेऽव्यापारात् , अन्यस्य तदभावावभासकत्वायोगात् । नचाभाववत् तद्भावस्यापि तस्यामवस्थायामप्रतिपत्तिः। स्वात्मनि स्वसंविदितविज्ञानाविनाभूतत्वेन निश्चितस्य प्राणापानशरीरोष्णताकारविशेषादेस्तदवस्थायामुपलभ्यमानलिङ्गस्य सद्भावेनानुमानप्रतीत्युत्पत्तेः । जाग्रदवस्थायामपि परसन्ततिपतितचेतोवृत्तेरस्मदादिभिर्यथोक्तलिङ्गदर्शनोभृतानुमानमन्तरेणाप्रतिपत्तेः। न किञ्चिच्चेतितं मयेति स्मरणादुत्तरकालभाविनस्तदवस्थायामनुभवानुमाने, किं वस्त्वसंवेदनं स्वरूपासंवेदनं वेत्यादि यदूषणमभिहितम्।तदप्यसारम्। जाग्रदवस्थाभाविखसंविदितगच्छत्तृणस्पर्शज्ञानाश्वविकल्पसमयगोदर्शनादिषूत्तरकालभावि, न मया किञ्चिदुपलक्षितमिति स्मरणलिङ्गबलोद्भूतानुमानविषयेष्वप्यस्य समानलात्। नच वसंविदितविज्ञानवादिनोऽत्रापि समानो दोष इति वक्तुं युक्तम्। यस्य यावती मात्रेति खसंविदितज्ञानस्याभ्युपगमात् । यच्च समनन्तरसहकारित्वाद्यनेकधर्मयुक्तत्वमेकक्षणे ज्ञानस्यासज्यत इति प्रतिपादितम्। तदभ्युपगम्यमानलेनादूषणम् । अतः पौर्वापर्यव्यवस्थितहर्षविषादाद्यनेकपर्यायव्याप्येकात्मव्यतिरेकेण ज्ञानयोः वसन्तानेऽप्यनुसन्धाननिमित्तोपादानोपादेयभावासंभवात् , न परसन्तानवदनुसंधानप्रत्ययः स्याद्, दृश्यते च।अतोऽनेकत्वव्यावृत्तादनुसन्धानप्रत्ययादपि लिङ्गादात्मसिद्धिः। अथापि स्याद्, गमकत्वं हि हेतोः स्वसाध्याविनाभावग्रहणपूर्वकम् ;तद्रहणं च धर्म्यन्तरे। नचात्रैककर्तृकत्वेन साध्यमिव्यतिरिक्ते धर्म्यन्तरे प्रतिसन्धानस्य व्याप्तिः । येन प्रतिसन्धानादेकः कर्त्ताऽनुमीयेत । अथ ब्रूषे क्षणिकतासाधकस्य सत्ताख्यस्य हेतोर्यथा धर्म्यन्तरे व्याप्त्यग्रहणेऽपि गमकता, तद्वदस्यापि। एतदचारु । तस्य हि क्षणिकतायां प्राक् प्रत्यक्षेण निश्चयान्निश्चयविषयेण च व्याप्तदर्शनाद्विपक्षात् प्रच्यावितस्य बाधकप्रमाणेन साध्यधर्मिणि यदवस्थानं, तदेव खसाध्येन व्याप्तिग्रहणम् । अत एवास्य हेतोः साध्यधर्मिण्येव व्याप्तिनिश्चयमिच्छन्ति। ननु व्याप्तिसाध्यनिश्वययोनियमेन पौर्वापर्यमभ्युपगन्तव्यम् । व्याप्तिनिश्चयस्य साध्यप्रतिपत्त्यङ्गत्वात्। अत्र तु साध्यधर्मिणि व्याप्तिनिश्चयाभ्युपगमे साध्यप्रतिपत्तिकालोऽन्योऽभ्युप

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200