Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 171
________________ तत्त्वबोधविधायिनी व्याख्या । १७१ तथाच भवतां मुख्यं कर्तृलक्षणं “ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृता " इति । केनेश्वरस्य तद्रहितत्वात् प्रयत्नप्रतिषेधः कृतः १ । आत्ममनःसंयोगजन्यत्वात् प्रयत्नस्येश्वरस्य तदसंभवात्कारणाभावात् तन्निषेधः । बुद्धिस्तर्हीश्वरे कथम् ?, तस्या अपि मनःसंयोगजन्यतैव। साऽपि मा भूत्का नः क्षतिः ? । नेनु तदसत्चैव, न त्वन्या काचित् । साऽपि भवतु; तदभावे कस्य विशेषः शरीरादिसंयोगलक्षणः साध्यते । अत एवान्यैरुक्तम्, नातीन्द्रियार्थप्रतिषेधो विशेषस्य कस्यचित्साधनेन, निराकरणेन वा कार्यः तदभावे विशेष साधनस्य तन्निराकरण हेतोर्वाऽऽश्रयासिद्धत्वात् किन्त्वतीन्द्रियमर्थमभ्युपगच्छंस्तत्सिद्धौ प्रमाणं प्रष्टव्यः । स चेत्सि प्रयोजकं हेतुं दर्शयति, ओमिति कृत्वाऽसौ प्रतिपत्तव्यः । अथ न दर्शयति प्रमाणाभावादेवासौ नास्ति, न तु विशेषाभावात् । तस्माद् ज्ञानचिकीर्षाप्रयत्नानां समवायोऽस्तीश्वरे । ते तु ज्ञानादयोऽस्मदादिज्ञानादिभ्यो विलक्षणाः । वैलक्षण्यं च नित्यत्वादिधर्मयोगात् । तन्नेश्वरशरीरस्य कर्तृविशेषस्य व्याप्त्यभावात् सिद्धिः । नाप्यसर्वज्ञत्वं विशेषः कुलालादिषु दृष्टस्तत्र साध्यते । तत्सिद्धावपि विशेषविरुद्धस्य व्याप्त्यभाव एव । न ह्य सर्वविदा कर्त्रा कुलालादिना किञ्चित्कार्यं क्रियते । ननु कुलालादेः सर्ववित्त्वे नेदानीं कश्चिदसर्ववित् । एवमेव, यद्यः करोति स तस्योपादानादिकारणकलापं, प्रयोजनं च जानाति । अन्यथा तत्क्रियाऽयोगात् । सर्वज्ञत्वं च प्रकृतकार्यतन्निमित्तापेक्षम् । अतः कुलालादिर्यथा कर्त्ता स्वकार्यस्य सबै जानात्युपादानादि; एवमीश्वरोऽपि सर्वकर्त्ता सर्वस्य कारणप्रयोजनं विवादविषयस्य सर्वस्योपादानकारणादि च कर्तृत्वादेव जानाति; अतः कथमसावसर्ववित् ? । अन्ये लाहुः । क्षेत्रज्ञानां नियतार्थविषयग्रहणं सर्वविदधिष्ठितानाम्, यथा प्रतिनियतशब्दादिविषयग्राहकाणामिन्द्रियाणामनियतविषयसर्वविदधिष्ठितानां जीवच्छरीरे, तथाचेन्द्रियवृत्त्युच्छेदलक्षणं केचिन् - मरणमाहुश्चेतनानधिष्ठितानाम् । अस्ति च क्षेत्रज्ञानां प्रतिनियत विषयग्रहणं, तेनाप्यनियतविषय सर्वविदधिष्ठितेन भाव्यम् । योऽसौ क्षेत्रज्ञाधिष्ठायकोऽनियतविषयः, स सर्वविदीश्वरः । नन्वेवं तस्यैव सकलक्षेत्रेष्वधिष्ठायकत्वात् किमन्तर्गडुस्थानीयैः ܕ १ नैयायिकः समाधत्ते - प्रागुक्तप्रकारेण बुद्ध्यादेर्निषेधे तस्येश्वरस्यासत्चैव क्षतिर्नान्या काचित् । परः पुनः प्राह - साऽपि भवत्विति ।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200