________________
तत्त्वबोधविधायिनी व्याख्या ।
१७१
तथाच भवतां मुख्यं कर्तृलक्षणं “ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृता " इति । केनेश्वरस्य तद्रहितत्वात् प्रयत्नप्रतिषेधः कृतः १ । आत्ममनःसंयोगजन्यत्वात् प्रयत्नस्येश्वरस्य तदसंभवात्कारणाभावात् तन्निषेधः । बुद्धिस्तर्हीश्वरे कथम् ?, तस्या अपि मनःसंयोगजन्यतैव। साऽपि मा भूत्का नः क्षतिः ? । नेनु तदसत्चैव, न त्वन्या काचित् । साऽपि भवतु; तदभावे कस्य विशेषः शरीरादिसंयोगलक्षणः साध्यते । अत एवान्यैरुक्तम्, नातीन्द्रियार्थप्रतिषेधो विशेषस्य कस्यचित्साधनेन, निराकरणेन वा कार्यः तदभावे विशेष साधनस्य तन्निराकरण हेतोर्वाऽऽश्रयासिद्धत्वात् किन्त्वतीन्द्रियमर्थमभ्युपगच्छंस्तत्सिद्धौ प्रमाणं प्रष्टव्यः । स चेत्सि प्रयोजकं हेतुं दर्शयति, ओमिति कृत्वाऽसौ प्रतिपत्तव्यः । अथ न दर्शयति प्रमाणाभावादेवासौ नास्ति, न तु विशेषाभावात् । तस्माद् ज्ञानचिकीर्षाप्रयत्नानां समवायोऽस्तीश्वरे । ते तु ज्ञानादयोऽस्मदादिज्ञानादिभ्यो विलक्षणाः । वैलक्षण्यं च नित्यत्वादिधर्मयोगात् । तन्नेश्वरशरीरस्य कर्तृविशेषस्य व्याप्त्यभावात् सिद्धिः । नाप्यसर्वज्ञत्वं विशेषः कुलालादिषु दृष्टस्तत्र साध्यते । तत्सिद्धावपि विशेषविरुद्धस्य व्याप्त्यभाव एव । न ह्य सर्वविदा कर्त्रा कुलालादिना किञ्चित्कार्यं क्रियते । ननु कुलालादेः सर्ववित्त्वे नेदानीं कश्चिदसर्ववित् । एवमेव, यद्यः करोति स तस्योपादानादिकारणकलापं, प्रयोजनं च जानाति । अन्यथा तत्क्रियाऽयोगात् । सर्वज्ञत्वं च प्रकृतकार्यतन्निमित्तापेक्षम् । अतः कुलालादिर्यथा कर्त्ता स्वकार्यस्य सबै जानात्युपादानादि; एवमीश्वरोऽपि सर्वकर्त्ता सर्वस्य कारणप्रयोजनं विवादविषयस्य सर्वस्योपादानकारणादि च कर्तृत्वादेव जानाति; अतः कथमसावसर्ववित् ? । अन्ये लाहुः । क्षेत्रज्ञानां नियतार्थविषयग्रहणं सर्वविदधिष्ठितानाम्, यथा प्रतिनियतशब्दादिविषयग्राहकाणामिन्द्रियाणामनियतविषयसर्वविदधिष्ठितानां जीवच्छरीरे, तथाचेन्द्रियवृत्त्युच्छेदलक्षणं केचिन् - मरणमाहुश्चेतनानधिष्ठितानाम् । अस्ति च क्षेत्रज्ञानां प्रतिनियत विषयग्रहणं, तेनाप्यनियतविषय सर्वविदधिष्ठितेन भाव्यम् । योऽसौ क्षेत्रज्ञाधिष्ठायकोऽनियतविषयः, स सर्वविदीश्वरः । नन्वेवं तस्यैव सकलक्षेत्रेष्वधिष्ठायकत्वात् किमन्तर्गडुस्थानीयैः
ܕ
१ नैयायिकः समाधत्ते - प्रागुक्तप्रकारेण बुद्ध्यादेर्निषेधे तस्येश्वरस्यासत्चैव क्षतिर्नान्या काचित् । परः पुनः प्राह - साऽपि भवत्विति ।