________________
१७०
सम्मतिताख्यप्रकरणस्य
धर्माणां प्रमाणान्तरेण बाधोपपत्तौ विशिष्टबुद्धिमत्कारणसिद्धिय॑तिरेकिबलादिति केचित् । अन्ये मन्यन्ते यत्रान्वयव्यतिरेकिणो हेतोर्न विशेषसिद्धिः, तत्र तत्पूर्वकात् केवलव्यतिरेकिणो विशेषसिद्धिर्भवतु; यथा घ्राणादिषु । अत्र तु पूर्वस्मादेतोर्विशेषसिद्धौ न हेत्वन्तरपरिकल्पना। यथा धूमस्य वह्निनाऽन्वयव्यतिरेकसिद्धावत्र देशे वह्निरिति पक्षधर्मत्वबलात्प्रतिपत्तिः, नान्वयाद् व्यतिरेकाहा।तयोयेतद्देशावच्छिन्नेन वह्निनाऽसंभवाद्यद्यपि व्याप्तिकाले सकलाक्षेपेण तद्देशस्याप्याक्षेपः, अन्यथाऽत्र व्याप्तेरसंभवात ; तथापि व्याप्तिग्रहणवेलायां सामान्यरूपतया तदाक्षेपः, न विशेषरूपेणेति विशेषावगमो नान्वयव्यतिरेकनिमित्तः, अपि तु पक्षधमत्वकृतः।अत एव प्रत्युत्पन्नकारणजन्यां स्मृतिमनुमानमाहुः । प्रत्युत्पन्नं च कारणं पक्षधर्मत्वमेव । तथा कार्यत्वादेर्बुद्धिमत्कारणमात्रेण व्याप्तिसिद्धावपि कारणविशेषप्रतिपत्तिः पक्षधर्मत्वसामर्थ्यात् । य इत्थंभूतस्य पृथिव्यादेः कर्ता, नियमेनासावकृत्रिमज्ञानसंबन्धी शरीररहितः सर्वज्ञ एक इति । एवं यदा पक्षधर्मत्वबलाद्विशेषसिद्धिः, तदा न विशेषविरुद्धादीनामवकाशः।अन्वयसामर्थ्यादपि विशेषसिद्धिमन्ये मन्यन्ते । यथा धूममात्रस्य वह्निमात्रेण व्याप्तिः, एवं धूमविशेषस्य वह्निविशेषेण इति धूमविशेषप्रतिपत्तौ न वह्निमात्रेणान्वयानुस्मृतिः; किन्तु वह्निविशेषेगैवंविशिष्टकार्यत्वदर्शनान्न कारणमात्रानुस्मृतिः, किन्तु तथाविधकार्यविशेषजनककारणविशेषानुस्मृतिः। तदनुस्मृतावत्रान्वयसामर्थ्यादेव कारणविशेषप्रतिपत्तिरिति न विशेषविरुद्धावकाशः। एतेषां पक्षाणां युक्तायुक्तत्वं सूरयो विचारयिष्यन्तीति नास्माकमत्र निर्बन्धः; सर्वथा विशेषविरुद्धस्यादूषणत्वमस्माभिः प्रतिपाद्यते, तद्विरुद्धलक्षणपर्यालोचनया प्रसक्तानां च विशेषाणां प्रमाणान्तरबाधया, अन्वयव्यतिरोकमूलकेवलव्यतिरेकिबलाहा, पक्षधर्मत्वसामर्थ्येन वा, कार्यविशेषस्य कारणविशेषान्वितत्वेन वा; नात्र प्रयत्यते।सर्वथा प्रस्तुतहेतौ न व्याप्त्यसिद्धिः। प्रसक्तानां विशेषाणां प्रमाणान्तरबाधया विशेषविरुद्धताऽनवकाश इत्युक्तम् ; तत्र कतमस्य प्रसक्तस्य विशेषस्य केन प्रमाणेन निराकृतिः ?। शरीरसंबन्धस्य तावयाप्त्यभावेन; शरीरान्तररहितस्याप्यात्मनः स्वशरीरधारणप्रेरणक्रियासु यथा। अथात्मनः प्रयत्नवत्त्वाद् धारणादिक्रियासु शरीराद्याधारासु कर्तृवं युक्तम्, नेश्वरस्य; तद्रहितत्वात् ।