________________
१६९
तत्त्वबोधविधायिनी व्याख्या । तदाश्रयत्वेन हेतोर्यथा प्रमाणेनोपलम्भस्तथा पूर्व प्रदर्शितम् । अतोऽस्मादीश्वरावगमे न तत्सिद्धौ प्रमाणाभावः। नापि हेतोर्विशेषविरुद्धता । तद्विरुद्धत्वे हेतोर्विशेषणेऽभ्युपगम्यमाने न कश्चिद्धेतुरविरुद्धो भवेत् । प्रसिद्धानुमानेऽपि विशेषविरुद्धादीनां सुलभत्वात् । यथाऽयं धूमो दहनं साधयति तथैतद्देशावच्छिन्नवह्नयभावमपि साधयति । नहि पूर्वधूमस्यैतद्देशावच्छिन्नेन वह्निना व्याप्तिः । एवं कालाद्यवच्छेदेन हेतोविरुद्धता वक्तव्या। अथ देशकालादीन् विहाय वह्निमात्रेण हेतोाप्तेन विरुद्धता, तर्हि तहत्कार्यमात्रस्य बुद्धिमत्कारणपूर्वकत्वेन व्याप्तेः यद्यपि दृष्टान्तेऽनीश्वरोऽसर्वज्ञः कृत्रिमज्ञानसम्बन्धी सशरीरः क्षित्याद्युपविष्टः कर्ता, तथापि पूर्वोक्तविशेषणानां धर्मिविशेषरूपाणां व्यभिचारात्तद्विपर्ययसाधकत्वेऽपि न विरुद्धता। विरुद्धो हि हेतुः साध्यविपर्ययकारित्वाद्भवति। नचैतेषां साध्यता । बुद्धिमत्कारणपूर्वकत्वमात्रस्यास्माद्धेतोः साध्यत्वेनेष्टत्वात् । यथा च विशेषविरुद्धादीनामदूषणत्वं तथा “सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः” इत्यत्र सूत्रे निर्णीतम्। इतश्चैतददूषणम्। पूर्वस्माद्धेतोः स्वसाध्यसिद्धावुत्तरेण पूर्वसिद्धस्यैव साध्यस्य किं विशेषः साध्यते, उत पूर्वहेतोः स्वसाध्यसिद्धिप्रतिबन्धः क्रियते । न तावत्पूर्वो विकल्पः। यदि नाम तत्रापरेण हेतुना विशेषाधानं कृतं, किं तावता पूर्वस्य हेतोः साध्यसिद्धिविघातः । यथा कृतकवेन शब्दस्यानित्यवसिद्धौ, हेवन्तरेण गुणवसिद्धावपि न पूर्वस्य क्षतिः, तद्वदत्रापि।अथोत्तरो विकल्पः। तथापि स्वसाध्यसिद्धिप्रतिबन्धो व्याप्त्यभावप्रदर्शनेन क्रियते; व्याप्त्यभावश्च हेतुरूपाणामन्यतमाभावेन। न च धर्मिविशेषविपर्ययोद्भावनेन कस्यचिदपि रूपस्याभावः कथ्यते; नच हेतुरूपाभावासिद्धावगमकत्वम् । तन्न विशेषविरुद्धता । विशेषास्तु धर्मिणः स्वरूपसिद्धावुत्तरकालं प्रमाणान्तरप्रतिपाद्याः, न तु पूर्वहेतुबलादभ्युपगम्यन्ते । तच्च प्रमाणान्तरमागमः, पूर्वहेतोर्हेवन्तरं च । तच्चान्वयव्यतिरेकिपूर्वककेवलव्यतिरेकिसंज्ञम् । यथा गन्धाधुपलब्ध्या तत्साधनकरणमात्रप्रसिद्धौ प्रसक्तप्रतिषेधे करणविशेषसिद्धिः केवलव्यतिरेकिनिमित्ता, तथेहापि कार्यत्वात् बुद्धिमत्कारणमात्रप्रसिद्धौ प्रसक्तप्रतिषेधात् कारणविशेषसिद्धिः केवलव्यतिरेकिनिमित्ता । तथाहि । कार्यत्वाद् बुद्धिमत्कारणमात्रसिद्धौ प्रसक्तानां कृत्रिमज्ञानशरीरसंबद्धलादीनां