________________
१६८
सम्मतिताख्यप्रकरणस्यकारणत्वकृतौ वह्नयादिभिस्तुल्यता । यथा वह्नयादिसामग्या धूमादिर्जन्यमानो दृष्टः, स तामन्तरेण कदाचिदपि न भवति । स्वरूपहानिप्रसङ्गात् । तद्वत्सर्वमुत्पत्तिमत् कर्तृकर्मकरणपूर्वकं दृष्टं; तस्य सकृदपि तथादर्शनात्तजन्यतास्वभावः। तस्यैवंस्वभावनिश्चितावन्यतमाभावेऽपि कथं भावः ? । किंच । अनुपलभ्यमानकर्तृकेषु स्थावरेषु कर्तुरनुपलम्भः, शरीराधभावात् । नत्वसत्त्वात् । यत्र शरीरस्य कर्तृता तत्र कुलालादेः प्रत्यक्षेणैवोपलम्भः; अत्र तु चैतन्यमात्रेणोपादानाद्यधिष्ठानात् कथं प्रत्यक्षव्यापृतिः ? । नाप्येतद्वक्तव्यम्, शरीराद्यभावात्। तर्हि कर्तृताऽपि न युक्ता । कार्यस्य शरीरेण सह व्यभिचारदर्शनात् । यथा स्वशरीरस्य प्रवृत्तिनिवृत्ती सर्वश्चेतनः करोति; ते च कार्यभूते । न च शरीरान्तरेण शरीरप्रवृत्तिनिवृत्तिलक्षणं कार्य चेतनः करोति, तेन तस्य व्यभिचारः । अथ शरीर एव दृष्टत्वात् करोतु नान्यत्र । तन्न । यतः कार्य शरीरेण विना करोतीति नः साध्यम् , तत् स्वशरीरगतमन्यशरीरगतं वेति नानेन किश्चित् । एतेनैतदपि पराकृतम्, यदाहुरेके
"अचेतनः कथं भावस्तदिच्छामनुवर्तते" । अचेतनस्य शरीरादेरात्मेच्छानुवर्तित्वदर्शनात् । नचाचेतनस्य तदिच्छाननुवर्तिनोऽपि प्रयत्नप्रेर्यत्वपरिहार इति वक्तव्यम् । यत ईश्वरस्यापि प्रयत्नसद्भावे, न काचित् क्षतिः । नच शरीराभावात् कथं प्रयत्न इति वक्तुं युक्तम् । शरीरान्तराभावेऽपि शरीरस्य प्रयत्नप्रेर्यत्वदर्शनात् , तत्कर्तुः शरीराभावादकृष्टोत्पत्तिषु स्थावरेष्वग्रहणम्, न तत्रादर्शनेन हेतोर्व्यभिचारः । येऽपि प्रत्यक्षानुपलम्भसाधनं कार्यकारणभावमाहुः, तेषामपि कस्यचित्कार्यकारणभावस्य तत्साधनत्वे यथेन्द्रियाणाम् , अदृष्टस्य च तौ विना कारणत्वसिडिः, तथेश्वरस्यापि । अतो न व्याप्त्यभावः । अत एव न सत्पतिपक्षताऽपि । नैकस्मिन् साध्यान्विते हेतौ स्थिते द्वितीयस्य तथाविधस्य तत्रावकाशः। वस्तुनो बैरूप्यासंभवात् । नापि बाधः । अबुद्धिमत्कारणपूर्वकत्वस्य प्रमाणेनाग्रहणात् । साध्याभावे हेतोरभावः स्वसाध्यव्याप्तत्वादेव सिद्धः । नापि धर्म्यसिद्धता । कार्यकारणसङ्घातस्य, पृथिव्यादेर्भूतग्रामस्य च प्रमाणेन सिद्धत्वात् ।