________________
१६७
तत्त्वबोधविधायिनी व्याख्या। पगमादप्रत्याख्येयम् ; युक्तिश्च प्रदर्शितैव। चार्वाकैरप्येतदभ्युपगन्तव्यम्।तान् प्रति पूर्वमेतत्सिद्धौ प्रमाणस्योक्तत्वात्। प्रमाणसिद्धं तु न कस्यचिन्न सिद्धम् । अथादृष्टस्य कार्येणान्वयव्यतिरेकाननुविधानेऽपि नाकारणता; न तर्हि वक्तव्यं भूम्यादिव्य. तिरेकेण स्थावरादिना कार्येणेश्वरस्यान्वयव्यतिरेकाननुविधानादकारणत्वम् । अथ जगद्वैचित्र्यमदृष्टस्य कारणत्वं विना नोपपद्यते इति तत् कल्प्यते । सर्वानुत्पत्तिमतः प्रति, भूम्यादेः साधारणत्वादतोऽदृष्टाख्यविचित्रकारणकृतं कार्यवैचित्र्यम् । एवमदृष्टस्य कारणत्वकल्पनायामीश्वरस्यापि कारणत्वप्रतिक्षेपो न युक्तः । यथा कारणगतं वैचित्र्यं विना कार्यगतं वैचित्र्यं नोपपद्यते इति तत् परिकल्प्यते, तथा चेतनं कारं विना कार्यखरूपानुपपत्तिरिति किमिति तस्य नाभ्युपगमः ? । नचाकृष्टजातेषु स्थावरादिषु तस्याग्रहणेन प्रतिक्षेपः । अनुपलब्धिलक्षणप्राप्तखाददृष्टवत् । नच सर्वा कारणसामग्युपलब्धिलक्षणप्राप्ता । अत एव दृश्यमानेष्वपि कारणेषु कारणत्वमप्रत्यक्षम्। कार्येणैव तस्योपलम्भात् । सहकारिसत्ता दृश्यमानस्य कारणता केषाञ्चित् सहकारिणां दृश्यत्वेऽप्यदृष्टादेः सहकारिणः कार्येणैव प्रतिपत्तिः; एवमीश्वरस्य कारणत्वेऽपि न तत्स्वरूपग्रहणं प्रत्यक्षेणेति स्थितम् । ततोऽनुपलब्धिलक्षणप्राप्तत्वात् कर्तरुपलभ्यमानजन्मसु स्थावरेषु हेतोवृत्तिदर्शनान्न व्याप्त्यभावः, यतो निश्चितविपक्षवृत्तिहेतुर्व्यभिचारी । ननु निश्चितविपक्षवृत्तिर्यथा व्यभिचारी, तथा सन्दिग्धव्यतिरेकोऽपि। उक्तेषु स्थावरेषु कर्नग्रहणं किं कर्प्रभावात्, आहोखिद् विद्यमानत्वेऽपि तस्याग्रहणमनुपलब्धिलक्षणप्राप्तत्वेन । एवं सन्दिग्धव्यतिरेकत्वेन कश्चिद्धेतुर्गमकः।धूमादेरपि सकलव्यक्त्याक्षेपेण व्याप्त्युपलम्भकाले, न सर्वा वह्निव्यक्तयो दृश्याः, तासु वाऽदृश्यासु धूमव्यक्तीनां दृश्यत्वे सन्दिग्धव्यतिरेकाशङ्का न निवर्त्तते। यत्र वढेरदर्शने धूमदर्शनं, तत्र किंवढेरदर्शनमभावात्, आहोखिद् अनुपलब्धिलक्षणप्राप्तत्वादिति न निश्चयः। अतो धूमोऽपि सन्दिग्धव्यतिरेकत्वान्न गमकः । अथ धूमः कार्य हुतमुजः, तस्य तदभावे स्वरूपानुपपत्तिः,अदृष्टत्वेऽष्यनलस्य सद्भावकल्पना । ननु तत्कार्यमत्रोपलभ्यमानं किमिति कारणमन्तरेण कल्प्यते । अथ दृष्टशक्तेः कारणस्य कल्पनाऽस्तु, मा भूद् बुद्धिमतः। वह्नयादेधूमादीन् प्रति कथं दृष्टशक्तिता। प्रत्यक्षानुपलम्भाभ्यामिति चेत्। बुद्धिमतोऽपि ताभ्यां