________________
१६६
सम्मतितकाख्यप्रकरणस्यत्पत्तीनाम् ;युक्ता तत्र कर्तुरप्रतिपत्तिः, उत्पादकालानवगमात् ; तत्काले च तस्य तत्र संनिधानम्, अन्यदाऽस्य सन्निधानाभावादग्रहणम्। वनगतेषु च स्थावरेषूपलभ्यमानजन्मसु कर्तृसद्भावे तदवगमोऽवश्यंभावी; यथोपलभ्यमानजन्मनि घटादौ।अत उपलब्धिलक्षणप्राप्तस्य कर्तुस्तेष्वभावनिश्चयात्, तत्र व्याप्तिग्रहणकाल एव कार्यत्वादेहेंतोदर्शनान कर्तृपूर्वकत्वेन व्याप्तिः।इतश्च दृष्टहान्यदृष्टपरिकल्पनासम्भवात्। दृष्टानां क्षित्यादीनां कारणत्वत्यागोऽदृष्टस्य च कर्तुः कारणत्वकल्पना नयुक्तिमती। अथ न क्षित्यादेः कारणत्वनिराकरणम्, कर्तृकल्पनायामपि तत्सद्भावेऽपि तस्यापरकारणत्वकृतेः। तदसत्। यतो यद्यस्यान्वयव्यतिरेकानुविधायि तत्तस्य कारणमितरत्कार्यम्, क्षित्यादीनां त्वन्वयव्यतिरेकावनुविधत्ते तत्राकृष्टजातं वनस्पत्यादि नापरस्य ; कथमतो व्यतिरिक्तकारणं भवेत् ? 1 एवमपि कारणत्वकल्पनायां दोष उक्तः, चैत्रस्य व्रणरोहणे' इत्यादिना। तस्मात्पक्षधर्मत्वेऽपि व्याप्त्यभावादगमकत्वं हेतोः । अथ तेषां पक्षेऽन्तर्भावान्न तैर्व्यभिचारः। तदसत् । तात्त्विकं विपक्षत्वं कथमिच्छाकल्पितेन पक्षत्वेनापोघेत ? । व्याप्तौ सिद्धायां साध्यतदभावयोरग्रहणे घादीच्छापरिकल्पितं पक्षत्वं कथ्यते । सपक्षविपक्षयोर्हेतोः सदसत्त्वनिश्चयायाप्तिसिद्धिः । एवमपि साध्याभावे दृष्टस्य हेतोर्व्याप्तिग्रहणकाले, व्यभिचाराशङ्कायां निश्चये वा व्यभिचारविषयस्य पक्षेऽन्तीवेन गमकत्वकल्पने न कश्चिद्धेतुय॑भिचारी भवेत् । तस्मान्नेश्वरसिद्धौ कश्चित् हेतुरव्यभिचार्यस्ति । अत्राहुः । नाकृष्टजातैः स्थावरादिभिर्व्यभिचारो, व्याप्त्यभावो वा । साध्याभावे वर्तमानो हेतुर्व्यभिचारी उच्यते; तेषु तु कत्रग्रहणम् ; न सकर्तृकत्वाभावनिश्चयः। नन्तम् , उपलब्धिलक्षणप्राप्तत्वे कर्तुरभावनिश्चयस्तत्र युक्तः । नैतद्युक्तम् । उपलब्धिलक्षणप्राप्ततायाः कर्तुस्तेष्वनभ्युपगमात् । यत्तूक्तम् । क्षित्याद्यन्वयव्यतिरेकानुविधानदर्शनात्तेषां तद्व्यतिरिक्तस्य कारणत्वकल्पनेऽतिप्रसङ्गदोष इति। एतस्यां कल्पनायां धर्माधर्मयोरपि न कारणता भवेत्। नच तयोरकारणतैव। तयोःकारणत्वप्रसाधनात् । नहि किञ्चिज्जगत्यस्ति यत्कस्यचिन्न सुखसाधनं, दुःखसाधनं वा। नच तत्साधनस्यादृष्टनिरपेक्षस्योत्पत्तिः। इयांस्तु विशेषः। शरीरादेः प्रतिनियताहटाक्षिप्तत्वं प्रायेण, सर्वोपभोग्यानां तु साधारणादृष्टाक्षिप्तत्वम्। एतत्सर्ववादिभिरभ्यु