________________
तत्त्वबोधविधायिनी व्याख्या । दिगतवह्नयाद्यदर्शिनां धूमादिभ्योऽपि तदप्रतिपत्तिरस्तु । नचात्र शब्दसामान्य वस्त्वनुगमो नास्तीति वक्तुं युक्तम्। धूमादावपि शब्दसामान्यस्य वक्तुं शक्यत्वात्। तन्न शाक्यदृष्ट्या कार्यत्वादेरसिद्धता; नापि चार्वाकमीमांसकदृष्ट्या । तेषामपि संस्थानवदवश्यं कार्यम् , घटादिवत्पृथिव्यादिस्वावयवसंयोगैरारब्धम् , अवश्यंतया विश्लेषाद्विनाशमनुभविष्यति । एवं विनाशादा संभावितात्कार्यत्वानुमानं, रचनास्वभावाहा । यथोक्तं भाष्यकृता । येषामप्यनवगतोत्पत्तीनां भावानां रूपमुपलभ्यते; तेषां तन्तुव्यतिषङ्गजनितं रूपं दृष्ट्वा तद्व्यतिषङ्गविमोचनात् , तद्विनाशाहा विन
क्ष्यतीत्यनुमीयते । अनेन संस्थानवतोऽनुपलभ्यमानोत्पत्तेः समवाय्यसमवायिकारणविनाशाद्विनाशमाह; तथा पृथिव्यादेः संस्थानवतोऽदृष्टजन्मनो रूपदर्शनात् नाशसम्भावना भविष्यति; सम्भाविताच नाशात् कार्यवानुमितौ कर्तृप्रतिपत्तिः। यथोक्तं न्यायविद्भिः। “तत्त्वदर्शनं प्रत्यक्षतोऽनुमानतो वा” कार्यत्वविनाशित्वयोश्च समव्याप्तिकत्वादेकेनापरस्यानुमानमिष्टम् ; “तेन यत्राप्युभौ धर्मों-" इत्यत्रातो जैमिनीयानां न कार्यलादेरसिद्धता। नापि चार्वाकमतेऽसिद्धत्वम् ; तेषां रचनावत्त्वेनावश्यंभाविनी कार्यताप्रतिपत्तिरदृष्टोत्पत्तीनामपि क्षित्यादीनाम् । अन्यथा वेदरचनाया अपि कर्तृदर्शनाभावान्न कार्यता । यतस्तत्राप्येतावच्छक्यं वक्तुम् । न रचनात्वेन वेदरचनायाः कार्यत्वानुमानं, कर्तृभावानुविधायिनी तदर्शनाल्लौकिक्येव रचना तत्पूर्विकाऽस्तु, मा भूद्वैदिकी । अथ तयोर्विशेषानुपलम्भाल्लौकिकीव वैदिक्यपि कर्तृपूर्विका, तर्हि प्रासादादिसंस्थानवत् पृथिव्यादिसंस्थानवत्त्वस्यापि तद्पताऽस्तु । विशेषानुपलक्षणात् । तन्न हेतोरसिद्धता । मा भूद. सिद्धत्वं तथाऽप्यस्मात्साध्यसिद्धिर्न युक्ता । नहि केवलात्पक्षधर्मत्वाद् व्याप्तिशून्यात्साध्यावगमः । ननु किं घटादौ कर्तृकर्मकरणपूर्वकत्वेन कार्यत्वादे-- प्यनवगमः?। अस्त्येवं घटगते कार्यत्वे प्रतिपत्तिस्तथापि न व्याप्तिः। सा हि सकलाक्षेपेण गृह्यते, अत्र तु व्याप्तिग्रहणकाल एव केषाञ्चित् कार्याणामकर्तृपूर्वकाणां कार्यत्वदर्शनान्न सर्व कार्य कर्तृपूर्वकम् , यथा वनेषु वनस्पतीनाम् । अथ तत्र न कञभावनिश्चयः, किं तु कर्त्रग्रहणम् ;तच्च विद्यमानेऽपि कर्तरि भवतीति कथं साध्याभावे हेतोर्दर्शनम् । क पुनर्विधमानकर्तृणां तदप्रतिपत्तिः, यथा घटादीनामनवगतो