________________
१६४
सम्मतितकाख्यप्रकरणस्यविशिष्टसंस्थानयुक्तानां कथमकार्यता ? । सर्व संस्थानवत् कार्यम् , तच्च पुरुषपूर्वकं दृष्टम् । येऽप्याहुः। संस्थानशब्दवाच्यत्वं केवलं घटादिभिः समानं पृथिव्यादीनां न तत्त्वतोऽर्थः कश्चिद् द्वयोरनुगतसमानो विद्यते। तेषामपि, न केवलमत्रानुगतार्थाभावः किन्तु धूमादावपि पूर्वापरव्यक्तिगतो नैव कश्चिदनुगतोऽर्थः समानोऽस्ति । अथ तत्र वस्तुदर्शनायातकल्पनानिमित्तमुक्तम् , अत्र तथाभूतस्य प्रतिभासस्याभावान्नानुगतार्थकल्पना । तथाहि । कस्यचिद् घटादेः क्रियमाणस्य विशिष्टां रचनां कर्तृपूर्विकां दृष्ट्वाऽदृष्टकर्तृकस्यापि घटप्रासादादेस्तस्य रचनाविशेषस्य कर्तृपूर्वकलप्रतिपत्तिः । पृथिव्यादेस्तु संस्थानं कदाचिदपि कर्तृपूर्वकं नावगतम् । नापि तादृशं धर्म्यन्तरे दृष्टकर्तृक इव पटादौ; तत्पृथिव्यादिगतस्य संस्थानस्य वैलक्षण्यात्ततो न ततः कर्तृपूर्वकलप्रतिपत्तिः । एवं हेतोरसिद्धत्वेन नैतत्साधनम् । अयुक्तमेतत् । यतो यद्यनवगतसंबन्धान प्रतिपत्तॄन् अधिकृत्य हेतोरसिद्धत्वमुच्यते, तदा धूमादिष्वपि तुल्यम् । अथ गृहीताविनाभावानामपि कार्यत्वदर्शनात् तत्त्वादिषु ईश्वरादिकृतत्वप्रतिभासानुत्पत्तेरेवमुच्यते । तदसत् । ये हि कार्यत्वादेर्बुद्धिमत्कारणपूर्वकत्वेन गृहीताविनाभावास्ते तस्मादीश्वरादिपूर्वकत्वं तेषामवगच्छन्त्येव, तस्माद् व्युत्पन्नानामस्त्येव पृथिव्यादिसंस्थानवत्त्वकार्यत्वादेर्हेतोईर्मिधर्मताऽवगमः। अव्युत्पन्नानां तु प्रसिद्धानुमाने धूमादावपि नास्ति । अपिच । भवतु प्रासादादिसंस्थानेभ्यः पृथिव्यादिसंस्थानस्य वैलक्षण्यं, तथापि कार्यत्वं शाक्यादिभिः पृथिव्यादीनामिष्यते । कार्य च कर्तृकरणादिपूर्वकं दृष्टम्; अतः कार्यत्वाद् बुद्धिमत्कारणपूर्वकत्वानुमानम् । अथ कर्तृपूर्वकस्य कार्यत्वस्य, संस्थानवत्त्वस्य च तद्वैलक्षण्यान्न ततः साध्यावगमः। अत एवाधिष्ठातृभावाभावानुवृत्तिमद्यत् संस्थानं तदर्शनात् कर्बदर्शिनोऽपि तत्प्रतिपत्तियुक्तेत्यस्य दूषणस्य कार्यत्वेऽपि समानत्वात् कथं गमकता?। यद्येवम् , अनुमानोच्छेदप्रसङ्गः। धूमादिकमपि यथाविधमग्न्यादिसामग्रीभावाभावानुवृत्तिमत्, तथाविधमेव यदि पर्वतोपरि भवेत् , स्यात् ततो वह्नयाद्यवगमः; अथाधूमव्यावृत्तं तथाविधमेव धूमादि, तर्हि कार्यत्वाद्यपि तथाविधं पृथिव्यादिगतं किं नेष्यते । अथ पृथिव्यादिगतकार्यत्वादिदर्शनात् कर्बदर्शिनां तदप्रतिपत्तिः; एवं शिखर्या