________________
तत्वबोधविधायिनी व्याख्या ।
१६३
;
प्रमाणतो नित्यज्ञानादिधर्म कलापान्वितस्य तस्याभ्युपगमात् । ननु युक्तमेतद्यदि तथाभूतपुरुषसद्भावप्रतिपादकं किञ्चित्प्रमाणं स्यात्, तच्च नास्ति । तथाहि । न प्रत्यक्षं तथाविधपुरुषसद्भावावेदकमस्मदादीनाम् अस्मद्विलक्षणयोगिभिस्तस्यावसाय इत्यत्रापि न किञ्चित् प्रमाणमस्ति । यदा न तत्स्वरूपग्रहणे प्रत्यक्षप्रमाणप्रवृत्तिः, तदा तद्गतधर्माणां नित्यज्ञानादीनां सद्भाववाचैव न संभवति । नानुमानमपि युक्तमेतत्स्वरूपावेदकम् । प्रत्यक्षनिषेधे तत्पूर्वकस्य तस्यापि निषेधात् । सामान्यतो दृष्टस्यापि नात्र विषये प्रवृत्तिः । लिङ्गस्य कस्यचित्तत्प्रतिपादकस्याभावात्, कार्यवस्य पृथिव्याद्याश्रितस्य केषाञ्चिन्मतेनासिद्धेः । नच संस्थानवत्त्वस्य तत्साधकत्वम् । प्रासादादिसंस्थानेभ्यः पृथिव्यादिसंस्थानस्यात्यन्तवैलक्षण्यात् । संस्थानशब्दवाच्यत्वेन चातिप्रसक्तिर्दर्शिता, “वस्तुभेदप्रसिद्धस्य शब्दसाम्यादभेदिनः” इत्यादिना । तस्मान्नानुमानं तत्साधनायालम् । नाप्यागमः । नित्यस्यात्र दर्शनेऽनभ्युपगमात् । अभ्युपगमे वा कार्यार्थप्रतिपादकस्य, सिद्धे वस्तुन्यव्यापृतेः । नापीश्वरपूर्वकस्य प्रामाण्यम् । इतरेतराश्रयदेोषप्रसङ्गात् । अनीश्वर पूर्वकस्यापि संभाव्यमानदोषत्वेन प्रप्राणताऽनुपपत्तेः । तस्यान्येश्वरपूर्वकत्वे, तस्यापि सिद्धिः कुत इति वक्तव्यम् । तदसिद्धौ, न तस्य प्रामाण्यम्; अनेकेश्वरप्रसङ्गदोषश्च । भवतु को दोषः । यत एकस्यापि साधने वयमतीवोत्सुकाः, किं पुनर्बहूनामिति चेत् । न कश्चित्प्रमाणाभावं मुक्त्वा । तन्नागमतोऽपि तत्प्रतिपत्तिः, एवं खरूपासिद्धौ कथं तस्य कारणता । अत्राहुः । यदुक्तम्, न तत्र प्रत्यक्षं प्रमाणम् । तदेवमेव । यदपि, सर्वप्रकारस्यागमस्य न तत्स्वरूपावेदने व्यापृतिः । तत्रोच्यते । आगमाव्यापारेऽपि तत्स्वरूपसाधकमनुमानं विद्यते । आगमस्यापि सिद्धेऽर्थे लिङ्गदर्शनन्यायेन यथा व्यापृतिस्तथा प्रतिपादयिष्यामः । प्रत्यक्षपूर्वकानुमाननिषेधे सिद्धसाधनम् । सामान्यतो दृष्टानुमानस्य तत्र व्यापाराभ्युपगमात् । नन्वनुमानप्रमाणतायामयं विचारो युक्ता - रम्भः, तस्यैव तु प्रामाण्यं नानुमन्यन्ते चावीका इति । एतच्चानुद्धोष्यम्। अनुमानप्रामाण्यस्य व्यवस्थापितत्वात् । यत्तूक्तम् । पृथिव्यादिगतस्य कार्यत्वस्याप्रति - पत्तेः, न तस्मादीश्वरावगमः । तत्र पृथिव्यादीनां बौद्धैः कार्यमभ्युपगतं, ते कथमेवं देयुः । येऽपि चार्वाकाद्याः पृथिव्यादीनां कार्यत्वं नेच्छन्ति, तेषामपि