________________
१६२
सम्मतिताख्यप्रकरणस्य
कारिकारणवं कचिदप्युपलब्धम् । तत्सद्भावे वा एकसामग्यधीनस्य रूपादेः, रसतस्तत्समानकालभाविनोऽव्यभिचारिणी प्रतिपत्तिर्न स्यात् । रूपक्षणस्य खोपादेयक्षणान्तराजननेऽपि रससन्ततौ सहकारिकारणलेन रसक्षणजनकत्वाभ्युपगमात्, तत्सद्भावेऽपि तत्समानकालभाविनोरूपादेरभावात्।तन्नोपादानकारणत्वाभावेसहकारित्वस्यापि संभव इति स्वसन्तत्युच्छेदाभ्युपगमेऽर्थक्रियालक्षणस्य सत्त्वस्यासम्भव इत्युत्पादव्ययध्रौव्यलक्षणमेव सत्त्वमभ्युपगन्तव्यमिति कार्यविशेषलक्षणादेतोयथोक्तप्रकारेणातीतकालवदनागतकालसंबन्धित्वमप्यात्मनः सिद्धम्। यदप्युक्तम् । यद्यागमसिद्धत्वमात्मनः, तस्य वा प्रतिनियतकर्मफलसंबन्धस्तत्सिद्धोऽभ्युपगम्यते, तदाऽनुमानवैयर्थ्यमिति।तदपि मूर्खेश्वरचेष्टितम्।नहि व्यर्थमिति निजकारणसामग्रीबलायातवस्तु प्रतिक्षप्तुं युक्तम्। नह्यागमसिद्धाः पदार्था इति प्रत्यक्षस्यापि प्रति. क्षेपो युक्तः। यदपि प्रत्यक्षानुमानाविषये चार्थे आगमप्रामाण्यवादिभिस्तस्य प्रामाण्यमभ्युपगम्यते। तदुक्तम् “आम्नायस्य क्रियाऽर्थत्वादानर्थक्यमतदर्थानाम्-" इति। तदप्ययुक्तम् । यतो बथा प्रत्यक्षप्रतीतेऽप्यर्थे विप्रतिपत्तिविषयेऽनुमानमपि प्रवृत्तिमासादयतीति प्रतिपादितम्, तथा प्रत्यक्षानुमानप्रतिपन्नेऽप्यात्मलक्षणेऽर्थे तस्य वा प्रतिनियतकर्मफलसंबन्धलक्षणे किमित्यागमस्य प्रवृत्तिर्नाभ्युपगमस्य विषयः?। नचागमस्य तत्राप्रामाण्यमिति वक्तुं युक्तम्। सर्वज्ञप्रणीतत्वेन तत्प्रामाण्यस्य व्यवस्थापितत्वात्। प्रतिनियतकर्मफलसंबन्धप्रतिपादकश्चागमः। "बह्वारम्भप्रतिग्रहवं च नारकस्य-' इत्यादिना वाचकमुख्येन सूत्रीकृतोऽस्यैवानुमानविषयवं प्रतिपादयितुकामेन । यथा च कर्मफलसंबन्धोऽप्यात्मनोऽनुमानादवसीयते, तथा यथास्थानमिहैव प्रतिपादयिष्यामः । आत्मस्वरूपप्रतिपादकः, प्रतिनियतकर्मफलसंबन्धप्रतिपादकश्चागमः-“एगे आया पुट्विं दुन्विण्णाणं दुप्पडिकंताणं कडाणं कम्माणम् " इत्यादिकः सुप्रसिद्ध एव । तदेवं प्रत्यक्षानुमानागमप्रमाणप्रसिद्धत्वात् नारकतिर्य
नरामरपर्यायानुभूतिखभावस्यात्मनो न भवशब्दव्युत्पत्तिरर्थाभावात् डित्थादिशब्दव्युत्पत्तितुल्येति स्थितम् ॥ _ अत्राहुनैयायिकाः। क्लेशकर्मविपाकाशयापरामृष्टपुरुषाभ्युपगमे, नित्यं सत्त्वमसत्त्वं वा' इति दूषणमभ्यधायि। तत्र तन्नित्यसत्त्वप्रतिपादने नास्माकं काचित क्षतिः।