________________
तस्वबोधविधायिनी व्याख्या ।
१६१ दत्यन्तभिन्ने जन्मान्तरशरीरादौ ज्ञानसंचारो युक्तः । तदसत् । पूर्वोत्तरजन्मशरीरज्ञानसंचारकारिणः कार्मणशरीरस्यात एव कथञ्चिदेकत्वसिद्धेः । तथाहि । ज्ञानं तावदिहजन्मादावन्यनिजजन्मज्ञानप्रभवं प्रसाधितम् ; तस्य चेहजन्मबालकुमाराद्यवस्थाभेदेषु तदेवेदं शरीरमित्यबाधितप्रत्यभिज्ञाप्रत्ययावगतैकरूपान्वयिषु संचारदर्शनात् पूर्वोत्तरजन्मावस्थाखपि तथाभूतानुगामिरूपसमन्वितासु तस्य संचारोऽनुमीयते । नचास्मदादीन्द्रियसंवेद्यरूपाद्याश्रयस्यौदारिकशरीरस्य जन्मान्तरशरीराद्यवस्थाऽनुगमः संभवति; तस्य तदैव च दाहादिना ध्वंसोपलब्धेः । अतो जन्मद्वयावस्थाव्यापकस्योष्मादिधर्मानुगतस्य कार्मणशरीरस्य विज्ञानसंचारकारिणः सद्भावः सिद्धः । पूर्वोत्तरजन्मावस्थाव्यापकस्यावस्थातुस्तदवस्थाभ्यः कथश्चिदभेदात् ; मातापितृशरीरविलक्षणनिजशरीरावस्थाचपलताऽऽधनुविधाने, उत्तरावस्थायाः कथं नावस्थातृधर्मानुविधानम् ।
"तस्माद्यस्यैव संस्कारं नियमेनानुवर्तते । ___ शरीरं पूर्वदेहस्य तत्तदन्वयि युक्तिमत्” ॥ १॥
अथ पूर्वापरयोः प्रत्यक्षस्याप्रवृत्तेर्न कार्यकारणभावः; अनुमानभावसिद्धावितरेतराश्रयदोष इति । तदपि प्रतिविहितम् । एवं हि सर्वशून्यत्वमायातमिति कस्य दूषणं साधनं वा केन प्रमाणेन ?, इहलोकस्याप्यभावप्रसक्तेरिति प्रतिपादितत्वात् । अथ कार्यविशेषस्य विशिष्टकारणपूर्वकवसिद्धौ यथोक्तप्रकारेण भवतु पूर्वजन्मसिद्धिः, भाविपरलोकसिद्धिस्तु कथम् ? । भाविनि प्रमाणाभावात् । तत्रापि कार्यविशेषादेवेति ब्रूमः । तथाहि । कार्यविशेषो विशिष्टं सत्त्वमेव । तच्च न सत्तासंबन्धलक्षणम्। तस्य निषेत्स्यमानत्वात् । नाप्यर्थक्रियाकारित्वलक्षणम् । सन्ततिव्यवच्छेदे तस्याभावप्रसङ्गात् । तथाहि । शब्दबुद्धिप्रदीपादिसन्तानानां यद्युच्छेदोऽभ्युपगम्यते, तदा तत्सन्ततिचरमक्षणस्यापरक्षणाजननादसत्वम्; तदसत्त्वे च पूर्वपूर्वक्षणानामर्थक्रियाऽजननादसत्त्वमिति सन्तत्यभावः। अथ सन्तत्यन्तक्षणः सजातीयक्षणान्तराजननेऽपि सर्वज्ञसन्ताने खग्राहिज्ञानजनकत्वेन सन्निति नायं दोषः। तदसत्।स्वसन्ततिपतितोपादेयक्षणाजनकत्वे परसन्तानवर्तिस्वाहिज्ञानजनकत्वस्याप्यसंभवात्। नापादानकारणलाभावे सह
२१