________________
सम्मतितकांख्यप्रकरणस्यमन्यो वेति प्रमात्रनिश्चये प्रमेयानिश्चयादन्धमूकं जगत् स्यात् । औपचारिकस्य प्रमातृनियततया प्रतिभासविषयत्वे नात्मप्रत्यक्षत्वदोषः । तत्रैतत् स्यात्। अस्त्ययं प्रमातृनियमनिश्चयः; स तु वसन्ततौ किमेककर्तृकत्वकृतः, उतस्विन्निमित्तान्तरकृतो युक्तः। तच्चैकस्यां सन्ततौ हेतुफलभावलक्षणं प्राक् प्रदर्शितम् । सत्यं प्रदर्शितं, नतु साधितम् । तथाहि । तत्कृतःप्रमातृनियमो नान्यकृत इति नैतावत्प्रत्यक्षस्य विषयः, नच प्रमाणान्तरस्यापि । तस्मिन् विषये उच्यमानं अनुमानमुच्येत, तदपि प्रत्यक्षनिषेधानिषिद्धम् । नच क्षणिकत्वव्यवस्थापने हेतुफलभाव. कृतो नियम इत्यभ्युपगन्तुं युक्तम् । तस्योपरिष्टात् निषेत्स्यमानत्वात्। नचात एव दोषादेककर्तृकलकृतोऽपि न नियम इति वक्तुं शक्यम्।स्वसंवेदनप्रत्यक्षसिद्धत्वस्य, तत्पूर्वकानुमानसिद्धत्वस्य चात्मनि प्राग्व्यवस्थापितत्वात् । अभ्युपगमवादेन तु क्षणिकत्वव्यवस्थापकसत्त्वहेतुतुल्यत्वमनुसन्धानप्रत्ययहेतोः प्रदर्शितम् ; नतु क्षणिकत्ववदात्मैकत्वस्य प्रत्यक्षासिद्धत्वम्; येनानुमानात तत्प्रतिसिद्मभ्युपगमे इतरेतराश्रयदोषप्रसङ्गप्रेर्येत ।अतोऽध्यक्षानुमानप्रमाणसिद्धदात् 'परलोकिनोऽभावात् परलोकाभावः' इति सूत्रं निःसारतया व्यवस्थितम् । यदप्युच्यते। शरीरान्तर्गतसंवेदनं कथं शरीरान्तरसंचारि; जीवतस्तावत् न शरीरान्तरसंचारो दृष्टः; परस्मिन् मरणसमये भविष्यतीति दुरन्वयमेतत् । तदपि न युक्तम् । यतः कुमारशरीरान्तर्गताः पाण्डित्यादिविकल्पा वृद्धावस्थाशरीरसंचारिणो दृश्यन्ते; जीवत एव चपलतादिशरीरावस्थाविशेषाः, वाग्विकाराश्व; तत् कथं न जीवतः शरीरान्तरसंचारः ? । अथैकमेवेदं शरीरं बालकुमारादिभेदभिन्नं, जन्मान्तरशरीरंतु मातापित्रन्तरशुक्रशोणितप्रभवं शरीरान्तरप्रभवम् । एतदप्ययुक्तम्। बालकुमारशरीरस्यापि भेदात् । यथा च बालकुमारशरीरचपलताभेदस्तरुणादिशरीरसञ्चारी उपलभ्यते, तथा निजजन्मान्तरशरीरप्रभवश्वपलतादिभेदः परभवभाविजन्मशरीरसंचारी भविष्यतीति; ततो न मातापितृशुक्रशोणितान्वयि जन्मादिशरीरम् , अपि तु वसन्तानशरीरान्वयमेव; वृद्धादिशरीरवत् । अन्यथा मातापितृशरीरचपलतादिविलक्षणं शरीरं चेष्टावन्न स्यात् । अथेहजन्मबालकुमाराद्यवस्थाभेदेऽपि प्रत्यभिज्ञानादेकलं सिद्धं, शरीरस्य तदवस्थाव्यापकस्य । तेन न तदृष्टान्तबला