________________
तत्त्वबोधविधायिनी व्याख्या ।
१५९
गन्तव्यः; नचासावन्योऽनुभूयते । अस्त्येतत्कार्यहेतोः, कस्यचित् स्वभावहेतोरपि । अस्य तु बाघकात् प्रमाणाद्विपक्षात्प्रच्युतस्य यदेव साध्यधर्मिणि खसाध्यव्याप्ततया ग्रहणं तदेव साध्यग्रहणम् । नचास्यैवं द्वैरूप्यम् । यतो विपक्षाद्व्यावृत्तिरेवान्वयमाक्षिपति । इयांस्तु विशेषः । कस्यचिद् हेतोर्व्याप्तिविषयप्रदर्शनाय धर्मिविशेषः प्रदर्श्यते, अस्य तु यत्सत्तत् क्षणिकमिति धर्मिविशेषाप्रदर्शनेऽपि धर्मिमात्राक्षेपेण व्याप्तिप्रदर्शनम् । तच्च सत्त्वं कचिद्व्यवस्थितमुपलभ्यमानं क्षणिकताप्रति - पत्त्यङ्गम्; अतः पक्षधर्मताऽप्यत्रास्ति । नचात्रैवम् । अत्राप्येनमेव न्यायं केचिदाहुः । कथं ? तत्र हि व्यापकस्य क्रमस्य यौगपद्यस्य निवृत्त्या विपक्षात्तन्निवृत्तिः । अत्रापि प्रमातृनियतताया व्यापिकाया अभावाद्विपक्षात्प्रतिसन्धानलक्षणस्य हेतोर्निवृत्तिः । अथ तत्र बाधकप्रमाणस्य व्याप्तिः प्रत्यक्षेण निश्चीयते । क्रमयौगपद्याभ्यामर्थक्रियाकरणस्य प्रत्यक्षेण निश्चयात् । अत्र तु कथम् ?। अत्रापि प्रमातृनियमपूर्वकत्वेन खसन्तान एव प्रतिसंधानस्य व्याप्तिनिश्चयात् कथं न तुल्यता ? । अथ ब्रूयात् प्रमातृनियततेत्यस्य भाषितस्य कोऽर्थः, यदि परं भङ्ग्यन्तरेणैककर्तृकत्वं साध्यं व्यपदिश्यते, तस्य प्रत्यक्षेण निश्चयाभ्युपगमे कथं बाधकप्रमाणावसेयता व्याप्तेः । नैतत् । प्रमातृनियतताग्रहणं नैककर्तृकत्वग्रहणम्; सर्व एव हि भावा देशादिनियततयाऽवसीयमानव्यवहारगोचरतामुपयान्ति । प्रमातुरप्यवसाय एवमेव दृश्यते; इदानीमत्राहम् । एवं देशाद्यसंसर्गवत् प्रमात्रन्तरासंसर्गोऽपि निश्चीयते । तथाहि । देशकालनिबन्धननियमवद्व्यतिरिक्तपदार्था संसर्ग स्वभावनियतप्रतिभासोऽपि घटादेरिवात्रै कत्वानेकत्वनिश्चयाभावः । पूर्वपाक्षिकमते तस्य नानाकर्तृकेषु सन्तानान्तरेषु व्यापकस्याभावाद्, विपक्षात्प्रच्युतस्य प्रतिसन्धानस्य क्वचिदुपलभ्यमानस्यैककर्तृकत्वे न व्याप्तिः। यथा क्रमयौगपद्याभ्यामर्थक्रियाकरणदर्शने नैवं निश्चयः, किं क्षणिकैः क्रमयौगपद्याभ्यां सा क्रियते, आहोखिदन्यथेति । अथ च प्रत्यक्षेण बाधकस्य व्याप्त्यवसाये, पश्चाद्यापकानुपलब्ध्या मूलहेतोर्व्याप्तिसिद्धिः, एवमेककर्तृकत्वानवसायेऽपि प्रमातृनियततया प्रतिसन्धानस्य स्वसन्ततौ व्याप्तिनिश्चये सत्युत्तरकालं विपक्षे व्यापकस्य प्रमातृनियतत्वस्याभावादेककर्तृकत्वेन प्रतिसंधानस्य व्याप्तिसिद्धिः । एवमनभ्युपगमेऽह
1