________________
१५८
सम्मतिताख्यप्रकरणस्यवेत्ति । तदा विज्ञानानभ्युपगमात्। तदवगमे च तस्यैव ज्ञानलात्, न तदवस्थायां तदभावः। नापि पार्श्वे स्थितोऽन्यस्तदभावं वेत्ति। कारणव्यापकस्वभावानुपलब्धीनां विरुद्धविधेर्वाऽत्र विषयेऽव्यापारात् , अन्यस्य तदभावावभासकत्वायोगात् । नचाभाववत् तद्भावस्यापि तस्यामवस्थायामप्रतिपत्तिः। स्वात्मनि स्वसंविदितविज्ञानाविनाभूतत्वेन निश्चितस्य प्राणापानशरीरोष्णताकारविशेषादेस्तदवस्थायामुपलभ्यमानलिङ्गस्य सद्भावेनानुमानप्रतीत्युत्पत्तेः । जाग्रदवस्थायामपि परसन्ततिपतितचेतोवृत्तेरस्मदादिभिर्यथोक्तलिङ्गदर्शनोभृतानुमानमन्तरेणाप्रतिपत्तेः। न किञ्चिच्चेतितं मयेति स्मरणादुत्तरकालभाविनस्तदवस्थायामनुभवानुमाने, किं वस्त्वसंवेदनं स्वरूपासंवेदनं वेत्यादि यदूषणमभिहितम्।तदप्यसारम्। जाग्रदवस्थाभाविखसंविदितगच्छत्तृणस्पर्शज्ञानाश्वविकल्पसमयगोदर्शनादिषूत्तरकालभावि, न मया किञ्चिदुपलक्षितमिति स्मरणलिङ्गबलोद्भूतानुमानविषयेष्वप्यस्य समानलात्। नच वसंविदितविज्ञानवादिनोऽत्रापि समानो दोष इति वक्तुं युक्तम्। यस्य यावती मात्रेति खसंविदितज्ञानस्याभ्युपगमात् । यच्च समनन्तरसहकारित्वाद्यनेकधर्मयुक्तत्वमेकक्षणे ज्ञानस्यासज्यत इति प्रतिपादितम्। तदभ्युपगम्यमानलेनादूषणम् । अतः पौर्वापर्यव्यवस्थितहर्षविषादाद्यनेकपर्यायव्याप्येकात्मव्यतिरेकेण ज्ञानयोः वसन्तानेऽप्यनुसन्धाननिमित्तोपादानोपादेयभावासंभवात् , न परसन्तानवदनुसंधानप्रत्ययः स्याद्, दृश्यते च।अतोऽनेकत्वव्यावृत्तादनुसन्धानप्रत्ययादपि लिङ्गादात्मसिद्धिः। अथापि स्याद्, गमकत्वं हि हेतोः स्वसाध्याविनाभावग्रहणपूर्वकम् ;तद्रहणं च धर्म्यन्तरे। नचात्रैककर्तृकत्वेन साध्यमिव्यतिरिक्ते धर्म्यन्तरे प्रतिसन्धानस्य व्याप्तिः । येन प्रतिसन्धानादेकः कर्त्ताऽनुमीयेत । अथ ब्रूषे क्षणिकतासाधकस्य सत्ताख्यस्य हेतोर्यथा धर्म्यन्तरे व्याप्त्यग्रहणेऽपि गमकता, तद्वदस्यापि। एतदचारु । तस्य हि क्षणिकतायां प्राक् प्रत्यक्षेण निश्चयान्निश्चयविषयेण च व्याप्तदर्शनाद्विपक्षात् प्रच्यावितस्य बाधकप्रमाणेन साध्यधर्मिणि यदवस्थानं, तदेव खसाध्येन व्याप्तिग्रहणम् । अत एवास्य हेतोः साध्यधर्मिण्येव व्याप्तिनिश्चयमिच्छन्ति। ननु व्याप्तिसाध्यनिश्वययोनियमेन पौर्वापर्यमभ्युपगन्तव्यम् । व्याप्तिनिश्चयस्य साध्यप्रतिपत्त्यङ्गत्वात्। अत्र तु साध्यधर्मिणि व्याप्तिनिश्चयाभ्युपगमे साध्यप्रतिपत्तिकालोऽन्योऽभ्युप