________________
१५७
तत्वबोधविधायिनी व्याख्या। दनं वोच्येत, स्वरूपावेदनं वा। वस्त्ववेदने, सकलप्रतिषेधो न युक्तः । स्वरूपावेदनं तु स्वसंवेदनाभ्युपगमे दूरोत्सारितम् । तस्मादिदानीमेव मनोव्यापारात्तदवस्थाभावी सर्वानवगमः संवेद्यते । अस्तु वा तस्यामवस्थायां विज्ञान, तथापि जनकत्वातिरिक्तव्यापारविशेषाभावः समनन्तरप्रत्ययत्वे जनकत्वातिरिक्तेऽभ्युपगम्यमाने तयोस्तात्त्विकभेदप्रसङ्गः । तथाच यदेवैकस्यां ज्ञानसन्ततौ समनन्तरप्रत्ययत्वं, तदेव परसन्तताववलम्बनत्वेन जनकत्वमित्येतन्न स्यात् । अथ जनकत्वसमनन्तरत्वादयो धर्माः काल्पनिकाः।अकल्पितं तु यत् स्वरूपं तत्तात्त्विकं,तच बोधरूपम् । किमिदानीं सांवृतात् रूपाद्भावानामुत्पत्तिः, नेत्युच्यते, कथं वा काल्पनिकत्वम् । अथ जनकत्वातिरिक्तस्य समनन्तरप्रत्ययत्वस्यैवमुच्यते, कथं तन्निबन्धना व्यवस्था । तथाहि । एकस्यां सन्ततौ परसन्ततिगतेन विज्ञानेन तुल्येऽपि जनकत्वे, समनन्तरप्रत्ययत्वेन जननविशेषमङ्गीकृत्यैकसन्तानव्यवस्था क्रियते; यदा तु व्यवस्थानिबन्धनस्यापि सांवृतत्वं, ततस्तत्कृताया व्यवस्थायाः परमार्थसत्त्वं दुर्भणमिति।अयमपि सौगतानां दोषो न जैनानाम्।यतो ज्ञानपूर्वकत्वं ज्ञानस्य, स्वसंवेदनं च ज्ञानस्य स्वरूपमित्येतत्प्राक् प्रतिसाधितम् । यच्चोक्तम् । अतज्जातीयादपि भावानामुत्पत्तिदर्शनाद्, यथा धूमादेः। इत्यपि न संगतम्। यतो नास्माभिरतज्जातीयोत्पत्तिर्नाभ्युपगम्यते, विलक्षणादपि पावकात् धूमोत्पत्तिदर्शनात् , किन्तु कारणगतधर्मानुविधानं कार्यत्वाभ्युपगमनिबन्धनम् ; तच्च ज्ञानस्य प्रदर्शितं प्राक्।नच कायविज्ञानयोरिवानलधूमयोः सर्वथा वैलक्षण्यम्; पुद्गलविकारत्वेन द्वयोरपि सादृश्यात्। सर्वथा सादृश्ये च कार्यकारणभावाभावप्रसङ्गः, एकत्वप्राप्तेः । यत्तु सदृशतादृशविवेकः कार्यनिरूपणायामपि दुर्लभस्तत्र यः कार्यदर्शनादपि विवेक नावधारयितुं क्षमस्तस्यानुमानव्यवहारेऽनधिकार एव। तदुक्तम्। सुविवेचितं कार्य कारणं न व्यभिचरति, अतस्तदवधारणे यत्नो विधेयः। अत एव रूपादीनां हि रूपादिपूर्वकत्वेन चेत्याद्यनभिमतोपालम्भमात्रम् । कथञ्चित् सादृश्यस्य कार्यकारणयोर्दर्शि. तत्वात् ; तस्य च प्रकृते प्रमाणसिद्धत्वात् । यच्च सुप्तमूञ्छिताद्यवस्थासु विज्ञानाभावेन तत्पूर्वकत्वमुत्तरज्ञानस्य न संभवीत्यभिधायि। तदसत् । तदवस्थायां विज्ञानाभावग्राहकप्रमाणासंभवात् । तथाहि । न तावत् सुप्त एव तदवस्थायां विज्ञानाभावं