________________
सम्मतितर्द्धाख्यप्रकरणस्व
भङ्गभङ्गप्रतिपादनावसरेऽभिधास्यामः । अत्र केचित् तुल्येऽपि जनकले स्वपरस• न्तानगतयोर्विज्ञानयोरुपादानत्वे कारणमाहुः । वसन्ततौ चेतितं ज्ञानं ज्ञानान्तरजनकं, नत्वेवं परसन्ततौ; अतो जनकत्वव्यतिरिक्तस्योपादानकारणत्वे निमित्तस्य संभवादित्थंभूताद्धेतुफलभावाद्व्यवस्था । अस्यापि व्यवस्थानिमित्तत्वमयुक्तम् ; नहि ज्ञानमसंवेदितं व्यवस्थां लभते । संवेदनं हि ज्ञानानां स्वत एवेष्यते । तच्च वसन्ततिपतित इव परसन्ततिपतितेऽपि तुल्यम् । ज्ञानान्तरखेचत्वं तु न शाक्यैरभ्युपगम्यते ज्ञानस्य नियमत इति नायमप्यतिप्रसङ्गपरिहारः। न च खसन्ततावपि स्वसंविदितज्ञानपूर्वकता ज्ञानस्य सिद्धा । मूर्छाद्यवस्थो'तरकालभाविज्ञानस्य तथात्वानवगमात् । यतो विज्ञानपूर्वकत्वेऽपि तत्र विप्रतिपत्तावादितः कुतः पुनः स्वसंविदितज्ञानपूर्वकत्वम् ? । तत्रैतत् स्यात्, विज्ञानपूर्वकत्वस्यानुमानेन निश्चयात् कथं विप्रतिपत्तिः । तच्च दर्शितम्; 'तज्जातीयात् तज्जातीयो - त्पत्तिः' इति । एतदसत् । अतज्जातीयादपि भावानामुत्पत्तिदर्शनाद्, यथा धूमादेः । येऽप्यत्राहुः । सदृशतादृशभेदेन भावानां विजातीयोत्पत्त्यसंभवादेतददूषणम् । तेषामपि सदृशतादृशविवेको नार्वाग्रहक्प्रमातृगोचरः । कार्यनिरूपणायामपि तयोर्विवेको दुर्लभः; तस्मादयमपरिहारः । यैः पुनरुच्यते । सर्वस्य समानजातीयादुपादानात्तदुत्पत्तिः । आद्यस्यापि धूमक्षणस्योपादानत्वेन व्यवस्थापिताःकाष्ठान्तर्गता अणवस्तत्रापि सजातीयत्वं न विद्मः । रूपादीनां हि रूपादिपूर्वकत्वेन वा सजातीयत्वम्, धूमत्वोपलक्षितावयवपूर्वकत्वेन वा । प्राच्ये विकल्पे, नेदानीं विजातीयादुत्पत्तिर्गेरप्यश्वादुपजायमानस्य । उत्तरविकल्पेऽपि, काष्ठान्तर्गतानामवयवानां धूमत्वं लौकिकं, पारिभाषिकं वा । परिभाषायास्तावदयमविषयः । लोकेऽपि तदाकारव्यवस्थितानामवयवानां नैव धूमत्वव्यवहारः । तार्किकेणापि लोकप्रसिद्धव्यवहारानुसरणं युक्तं कर्तुम् । तस्मान्न सजातीयादुत्पत्तिः । यच्चात्रोच्यते । तस्यामवस्थायां विज्ञानाभावे तदवस्थातः प्रच्युतस्योत्तकालमीदृशी संवित्तिर्न भवेन्न मया किञ्चिदपि चेतितं स्मृतिर्हीयमानानुभवपूविका, अतो येनानुभवेन सता न किञ्चिचेत्यते, तस्यामवस्थायां तस्यावश्यं सद्भावो ऽभ्युपगन्तव्यः । एतत् सुव्याहृतम् । न किञ्चिच्चेतितं मया इति ब्रुवता वस्त्ववे
१५६