________________
तत्त्वबोधविधायिनी व्याख्या। तदोपादानाभिमतं ज्ञानं द्विस्वभावमासज्यते; यथा चोपादानसहकारिस्वभावरूपद्वययोगस्तथा त्रैलोक्यान्तर्गतान्यजन्यकार्यान्तरापेक्षया तस्याजनकत्वमपि स्वभावः; ततश्चैकत्वं ज्ञानक्षणस्य यथोपादानसहकार्यजनकत्वानेकविरुद्धधर्माध्यासितस्याभ्युपगम्यते, तथा हर्षादिविवर्त्तात्मनस्तत्सन्तानस्याप्यभ्युपगन्तव्यम् । अथोपादानसहकार्यजनकलादयो धर्मास्तत्र कल्पनाशिल्पिकल्पिताः, एकलं तु तस्य स्वसंवेदनाध्यक्षसिद्धमिति न तैस्तदपनीयत इति मतिः; तात्मनोऽप्येकत्वं सन्तानशब्दाभिधेयतया प्रसिद्धस्य स्वसंवेदनाध्यक्षसिद्धस्य क्रमवद्धपविषादादिकार्यदर्शनाऽनुमीयमानं तदपेक्षजनकत्वाजनकत्वधर्मापनेयं न स्यात्; तन्न खगतसकलधर्माधायकत्वमुपादानत्वं भवदभ्युपगमेन सङ्गतम् । नापि सन्ताननिवृत्त्या कार्योत्पादकखभावम् ; तथाऽभ्युपगमे ज्ञानसन्ताननिवृत्तेः परलोकाभावप्रसङ्गः । अथ समनन्तरप्रत्ययत्वमुपादानवमुच्यते । तथाहि । समस्तुल्योऽनन्तरोऽव्यवहितः प्रत्ययो जनकः, नचैतद्भिन्नसन्तानादिति न तत्रानुसन्धानसंभवः । नन्वत्रापि समलं कार्येण यधुपादानलं प्रत्ययस्य, तदा वक्तव्यम् । किं सर्वथा समलम्, उतैकदेशेन ? । यदि सर्वथा। तदसत् । कार्यकारणयोः सर्वथा तुल्यले यथा कारणस्य प्राग्भाविलं, तथा कार्यस्यापि स्यात् । तथाच कार्यकारणयोरेककालखात् न कार्यकारणभावः । नोककालयोः कार्यकारणभावः, सव्येतरगोविषाणवत् । तथा कारणाभिमतस्यापि स्वकारणकालता, तस्यापि स्वकारणकालतेति सकलसन्तानशून्यमिदानीं समस्तं जगत् स्यात् । अथ कथश्चित्समानता । तथा सति योगिज्ञानस्याप्यस्मदादिज्ञानालम्बनस्य तदाकारत्वेनैकसन्तानवं स्यादित्यादि दूषणं पूर्वोक्तमेव । अथानन्तरत्वमुपादानत्वम् । ननु क्षणिकैकान्तपक्षे सर्वजगत्क्षणानन्तरं विवक्षितक्षणे जगत् जायत इति सर्वेषामुपादानत्वमित्येकसन्तानत्वं जगतः। देशानन्तर्य तत्रानुपयोगि । देशव्यवहितस्यापीहजन्ममरणचित्तस्य भाविजन्मचित्तोपादानत्वाभ्युपगमात् । प्रत्ययत्वं तु नोपादानत्वम् । सहकारित्वेऽपि प्रत्ययत्वस्य भावात् । तन्न समनन्तरप्रत्ययत्वमप्युपादानत्वम् । नच प्रतिक्षणविशरारुषु भावेषु कथञ्चिदेकान्वयमन्तरेण जनकत्वमपि संगच्छते, किमुतोपादानादिविभाग इति क्षण