________________
१५४
सम्मतिताख्यप्रकरणस्यपादानत्वमुक्तं, तत्किं खगतकतिपयविशेषाधायकत्वम् , आहोखित् सकलविशेषाधायकत्वमिति। तत्र यदि प्रथमः पक्षः। स न युक्तः। सर्वज्ञज्ञाने खाकारार्पकस्यास्मदादिविज्ञानस्य तं प्रत्युपादानभावप्रसङ्गात् । तथा रूपस्यापि रूपज्ञानं प्रत्युपादानभावप्रसक्तिः, तस्यापि स्वगतकतिपयविशेषाधायकत्वात् । अन्यथा निराकारस्य बोधस्य सर्वान् प्रत्यविशेषाद् रूपस्यैवायं ग्राहको न रसादेरिति ततः प्रतिकर्मव्यवस्था न स्यात् । रूपोपादानत्वे च ज्ञानस्य परलोकाय दत्तो जलाञ्जलिः स्यात् । किञ्च । कतिपयविशेषाधायकत्वेनोपादानत्वे एकस्यैव ज्ञानक्षणस्य तत्कार्यानुगतव्यावृत्तानेकधर्मसम्बन्धित्वाभ्युपगमे विरुद्धधर्माध्यासोऽभ्युपगतोभवति । तथाच यथा युगपद्भाव्यनेकविरुद्धधर्माध्यासेऽप्येकं विज्ञानं, तथा क्रमभाव्यनेकतद्धर्मयोगे किमित्येकं नाभ्युपगम्येत ? । अथ सकलविशेषाधायकत्वेन, न तर्हि निर्विकल्पकात् सविकल्पकोत्पत्तिः । नच निर्विकल्पकसविकल्पकयोरप्युपादानोपादेयत्वेनाभ्युपगतयोस्तद्भावः स्यात् । तथाच कुतो रूपाकारात् समनन्तरप्रत्ययात् कदाचिद्रसाधाकारस्याप्युपादेयत्वेनाभिमतस्योत्पत्तिः ?। अथ विज्ञानसन्तानबहुत्वाभ्युपगमात् नाऽयं दोषः; तेन सर्वस्य स्वसदृशस्योत्पत्तिः; तयस्मिन् दर्शन एकस्मिन्नपि सन्ताने प्रमातृनानात्वप्रसङ्गः। तथाच गवाश्वदर्शनयोभिन्नसन्तानवर्तिनोरेकेन दृष्टेऽर्थेऽपरस्यानुसन्धानं न स्यात् ; देवदत्तयज्ञदत्तसन्तानगतयोरिवान्येनानुभूतेऽन्यस्य । दृश्यते च
“गामहं ज्ञातवान् पूर्वमश्वं जानाम्यहं पुनः” । किञ्च । सकलस्वगतविशेषाधायकत्वे सर्वात्मनोपादेयज्ञानक्षणे तस्योपयो. गात् अनुपयुक्तस्यापरस्वभावस्याभावात् योगिविज्ञानं रूपादिकं चैकसामग्रयन्तर्गतं प्रति न सहकारित्वं तस्येति सहकारिकारणाभावे नोपादेयक्षणव्यतिरिक्तकार्यान्तरोत्पादः । अथ येषां कारणमेव कार्यतया परिणमति, तेषां भवत्वयं दोषो नास्माकं प्राग्भावमात्रं कारणत्वमभ्युपगच्छताम् । नन्वत्रापि मते येन स्वरूपेण विज्ञानमुपादेयं विज्ञानान्तरं जनयति, किं तेनैव रूपमेकसामन्यन्तर्गतम्, उत स्वभावान्तरेण ? । तत्र यदि तेनैव; तदा रूपमपि ज्ञानमुपादेयभूतं स्यात् । तत्स्वभावजन्यत्वात्, तदुत्तरज्ञानक्षणवत् । अथ स्वभावान्तरेण;