________________
तत्वबोधविधायिनी व्याख्या। भेदेऽप्येकसन्तानलम् ; तन्निबन्धनश्चानुसन्धानप्रत्ययो युक्तः । न पुनर्देवदत्तयज्ञदत्तज्ञानयोः कार्यकारणभावः । अतस्तन्निबन्धनसन्तानाभावनिमित्तस्तत्रानु. सन्धानाभावः । ननु देवदत्तज्ञानं यज्ञदत्तेन यदा व्यापारव्याहारादिलिङ्गबलादनुमीयते, तदा तत् यज्ञदत्तानुमानजनकं भवतीति कार्यकारणभावनिमित्तैकसन्ताननिबन्धना अनुसन्धानप्रसक्तिः स्यात्। अथ स्वसन्ततावुपादानोपादेयभावेन ज्ञानानां जन्यजनकभावो, भिन्नसन्ततौ तु सहकारिभावेन तद्भाव इति नाऽयं दोषः। ननु किं पुनरिदमुपादानलं, यदभावाद् भिन्नसन्तानेऽनुसन्धानाभावः । यत् खसन्ततिनिवृत्तौ कार्य जनयति, तदुपादानकारणं, यथा मृत्पिण्डः स्वयं निवर्त्तमानो घटमुत्पादयतीति स घटोत्पत्तावुपादानकारणम्, अथवापरम् , अनेकस्मादु. त्पद्यमाने कार्ये सकलखगतविशेषाधायकं तत् ; नवेवं निमित्तकारणम् । ननु प्रतिक्षणविशरारुष्वेकखभावपौर्वापर्यावस्थितज्ञानस्वभावेषु क्षणेषूपादानोपादेयभाव एव न व्यवस्थापयितुं शक्यः। तथाहि । उत्तरज्ञानं जनयत् पूर्वज्ञानं किं नष्टं जनयति, उतानष्टम्, उभयरूपम्, अनुभयरूपं वा।न तावन्नष्टम् ; चिरन्तरनष्टस्येवानन्तरन. ष्टस्याप्यविद्यमानत्वेनोत्पादकत्वविरोधात् । नाप्यनष्टम् ;क्षणभङ्गभङ्गप्रसङ्गात् । ना. प्युभयरूपम् ; एकस्वभावस्य विरुद्धोभयरूपासम्भवात् । नाप्यनुभयरूपम् ; अन्योन्यव्यवच्छेदरूपाणामेकनिषेधस्य तदपरविधाननान्तरीयकत्वेनानुभयरूपताया अयोगात् । अथ यदि व्यापारयोगात्कारणं कार्योत्पादकमभ्युपगम्येत, तदा स्यादयं दोषः; यदुत नष्टस्य व्यापारासम्भवात् कथं कार्योत्पादकत्वम् । यदा तु प्राग्भावमात्रमेव कारणस्य कार्योत्पादकत्वं, तदा कुत एतदोषावसरः। नन्वेतस्मिनभ्युपगमे प्राग्भाविनोऽनेकस्मादुपजायमाने कार्ये कुतोऽयं विभागः, इदमत्रो. पादानकारणमिदं च सहकारिकारणमिति । द्वयोरपि कार्येणानुविहितान्वयव्यतिरेकत्वात् । अथ सत्यप्यन्वयव्यतिरेकानुविधाने एकस्योपादानत्वेन जनकत्वमपरस्यान्यथेति । नन्वेतदेवोपादानभावेन जनकवं कस्यचिद् रूपस्याननुगमे प्राग्भावित्वमात्रेण दुरवसेयम्। अथाभिहितमेवोपादानकारणवस्य लक्षणं, तदवगमात् कथं तद् दुरवसेयम्। सत्यमुक्तम्।न तु कस्यचिद् रूपस्याननुगमे तत्संभवति; नाप्यवसातुं शक्यम् । तथाहि । यत् स्वगतविशेषाधायकत्वमु