________________
१५२ सम्मतितास्यप्रकरणस्यअथाननुप्रवेशेन, तदा नीलज्ञानपरमाण्यवभासानामयःशलाकाकल्पानां प्रतिभासनात्, कुतः स्थूलमेकनीलज्ञानसंवेदनम् ? । प्रतिनीलज्ञानपरमाण्ववभासं भिन्नत्वात् । अथ स्वसंवेदनावभासभेदे सत्यपि न तत्प्रतिभासस्य नीलज्ञानस्य भेदः । ननु कुतो नीलज्ञानस्याभेदः । किं तत् स्वसंवेदनाभेदात् , स्वतो वा । यदि खसंवेदनाभेदात् । तदयुक्तम् । तद्भेदस्य व्यवस्थापितत्वात्। अथ स्वत एव लदभेदः। तदप्ययुक्तम् । तस्याद्याप्यसिद्धत्वात् । तथा यदि दर्शनावस्थायां स्पर्शनावस्था न प्रतिभातीति तदवस्था व्याप्तिदर्शनज्ञानेनावस्थातुर्न ग्रहीतुं शक्या। नन्वेवं तदप्रतिभासनेन तद्व्याप्तिरपि कथं ग्रहीतुं शक्या ? । तदप्रतिभासने तत इदमवस्थातृरूपं व्यावृत्तमित्येतदपि ग्रहीतुमशक्यमेव । नच तद्विविक्तप्रतिभासादेव तद्व्याप्तिर्गृहीतैवेति वक्तुं युक्तम् । तदप्रतिभासने तद्विविक्तस्यैवाग्रहणात् । नच तद्व्याप्तिस्तस्य स्वरूपमेवेति दर्शनज्ञानेन तत्स्वरूपग्राहिणा तदभिन्नखरूपा तद्व्याप्तिरपि गृहीतैवेति युक्तम् । तद्याप्तावप्यस्य सर्वस्य समानत्वात् । नचाबाधितैकप्रत्ययविषयस्यात्मन एकत्वमसिद्धम् । नचास्यकलाध्यवसायस्य किञ्चिद्वाधकमास्ति । तद्बाधकलेन संभाव्यमानस्य प्रमाणस्य यथास्थानं निषेत्स्यमानवात् । भवतु वाऽनुसन्धानप्रत्ययलक्षणाद्धेतोस्तदेकलसिद्धिः, तथापि नेतरेतराश्रयदोषः। यतो नैकवप्रतिबद्धमनुसन्धानमन्वयिदृष्टान्तद्वारेण निश्चीयते, येनायं दोषः स्यात्; अपि त्वनेकत्वेऽनुसन्धानस्यासंभवात् ततो व्यावृत्तमनुसन्धानं तदेकत्वेन व्याप्यत इति एकसन्ताने स्मरणाद्यनुसन्धानदर्शनादनुमानतोऽपि तत्सिद्धिः । नच भेदे दर्शनस्मरणादिज्ञानानामनुसन्धानं संभवति । अन्यथा देवदत्तानुभूतेऽर्थे यज्ञदत्तस्य स्मरणाद्यनुसन्धानं स्यात् । अथ देवदत्तयज्ञदत्तयोरेकसन्तानाभावानानुसंधानम्; यत्र त्वेकः सन्तानस्तत्र पूर्वापरज्ञानयोरत्यन्तभेदेऽपि भवत्येवानुसन्धानम् । ननु सन्तानस्य यदि सन्तानिभ्यो भेद एकत्वं च; तदा शब्दा. न्तरेण स एवात्माऽभिहितो यत्प्रतिबद्धमनुसन्धानम् । अथ सन्तानिभ्योऽभिन्नः सन्तानः, तदा पूर्वोत्तरज्ञानक्षणानां सन्तानिशब्दवाच्यानां देवदत्तयज्ञदत्तज्ञानवदत्यन्तभेदात् तदभिन्नस्य सन्तानस्यापि भेद इति कुतोऽनुसन्धाननिमित्तबम् । अथैकसन्ततिपतितानां पूर्वोत्तरज्ञानसन्तानिनां कार्यकारणभावात्