________________
तत्त्वबोधविधायिनी व्याख्या ।
१५१ सारिणैतद्वक्तुं युज्यते । अहंप्रत्ययस्य सविकल्पकत्वेनाप्रत्यक्षत्वेन न तद्राह्यत्वमात्मन इति । सविकल्पकस्यैव प्रत्यक्षस्य प्रमाणत्वेन व्यवस्थापयिष्यमाणत्वात् । प्रत्यक्षविषयत्वेऽपि विप्रतिपत्तिसंभवेऽनुमानस्यावतारः। नच सिद्धे आत्मन एकत्वे तत्प्रतिबद्धोऽनुसन्धानप्रत्ययः सिध्धति, तत्सिद्धौ च ततस्तस्यैकत्वमितीतरेतराश्रयदोषावतारः। य एवाहं घटमद्राक्षं स एवेदानीं तं स्पृशामीति प्रत्ययात् प्रत्यभिज्ञाप्रत्यक्षस्वरूपादात्मन एकत्वसिद्धेः ।नचात्रैतत्प्रेर्यम् । द्रष्टरूपमात्मनः स्प्रष्ट्ररूपानुप्रवेशेन प्रतिभासते, आहोखिदननुप्रवेशेन । यद्यनुप्रवेशेन, तदा द्रष्ट्ररूपस्य स्प्रष्टरूपेऽनुप्रवेशात् स्प्रष्टरूपतैवेति न द्रष्टुरूपता, तथाचाहं द्रष्टा स्पृशामीति, कुत उभयावभासोल्लेख्येकं प्रत्यभिज्ञानम् ?, यतस्तदेकत्वसिद्धिः। अथाननुप्रवेशेन तदा दर्शनस्पर्शनावभासयोर्भेदात् कुत एकं प्रत्यभिज्ञानम्। नहि प्रतिभासभेदे सत्यप्येकत्वम्। अन्यथा घटपटप्रतिभासयोरपि तत्स्यात् । अथ प्रतिभासस्यैवात्र भेदो न पुनस्तद्विषयस्यात्मनः। कुतः पुनस्तस्याभेदः । न तावत्प्रतिभासाभेदात् । तस्य भिनत्वेन व्यवस्थापितत्वात् । नापि खतः। स्वतोऽद्यापि विवादविषयत्वात् । अथ दर्शनस्पर्शनावस्थाभेदेऽपिचिद्रूपस्य तदवस्थातुरभिन्नत्वान्नायं दोषः। तदप्यसङ्गतम्। यतो दर्शनावस्थाप्रतिभासेन तत्संबद्धमेवावस्थातृरूपं गृहीतं, न स्पर्शनज्ञानसंबन्धि । तत्र तदवस्थाया अनुत्पन्नत्वेनाप्रतिभासनात्; तदप्रतिभासने च तद्व्यापित्वेनावस्थातुरप्यप्रतिभासनात् । नापि स्पर्शनप्रतिभासेन दर्शनावस्थाव्याप्तिरवस्थातुरवगम्यते । स्पर्शनज्ञाने दर्शनस्य विनष्टत्वेनाप्रतिभासनात् । प्रतिभासने वाऽनाद्यवस्थापरम्पराप्रतिभासप्रसङ्गः। नच प्रागवस्थाऽप्रतिभासने तदवस्थाव्याप्तिरवस्थातुरवगन्तुं शक्या। यच्च येन रूपेण प्रतिभाति, तत्तेनैव सदित्यभ्युपगन्तव्यम् । यथा नीलं नीलरूपतया प्रतिभासमानं तेनैव रूपेणाभ्युपगम्यते । दर्शनस्पनिज्ञानाभ्यां च स्वसंबन्धित्वमेवावस्थातुर्गृह्यते इति तद्रूप एवासावभ्युपगन्तव्य इति कुतोऽवस्थातृसिद्धिः॥ यतो नीलप्रतिभासेऽप्येवं वक्तुं शक्यम् । किमेकनीलज्ञानपरमाण्ववभासोऽपरतन्नीलज्ञानपरमाण्ववभासानुप्रवेशेन प्रतिभाति, उताननुप्रवेशेन । यद्यनुप्रवेशेन, तदैकतन्नीलज्ञानपरमाण्ववभासानामनुप्रवेशान्नीलज्ञानसंवेदनस्यैकपरमाणुरूपत्वम् ; तस्य चाननुभघात्कुतो नीलज्ञानसंवेदनसिद्धिः।