________________
१५.
सम्मतिताख्यप्रकरणस्यतृप्रमित्योरपि चिद्रूपयोरखसंविदितवं युक्तम्। अन्यखभावत्वानुपपत्तेः। यत्तूक्तम्। इन्द्रियव्यापारे सति शरीराद्यवच्छिन्नस्य विषयस्यैव केवलस्यावभासनमिति। तदत्य. न्तमसङ्गतम् । विषयस्येव तदवभाससंवेदनस्यापि व्यवस्थापितत्वात् । तदभावे विषयावभास एव न स्यादित्यस्य चातः प्रमात्रवभास उपपन्न एव । नच कृशोऽहं स्थूलोऽहमिति शरीरसामानाधिकरण्येनास्य प्रत्ययस्योपपत्तेस्तदालम्बनता । चक्षुरादिकरणव्यापाराभावे शरीरस्याग्रहणेऽपि अहमितिप्रत्ययस्य सुखादिसमा. नाधिकरणत्वेन परिस्फुटप्रतिभासविषयत्वेनोत्पत्तिदर्शनात् न शरीरालम्बनत्वमस्य व्यवस्थापयितुं युक्तम् । नच कृशोऽहमिति प्रत्ययस्य भ्रान्तले ज्ञानवानहमिति ज्ञानसामानाधिकरण्येनोपजायमानस्यापि प्रत्ययस्य भ्रान्तलं युक्तम् । अन्यथा अनिर्माणवक इति माणवकेऽग्निप्रत्ययस्योपचरितविषयस्य भ्रान्तत्वेऽनावपि तत्प्रत्ययस्योपचरितत्वेन भ्रान्तवं स्यात् । अथ तत्र पाटवपिङ्गलबादिलक्षणस्योपचारनिमित्तस्य सद्भावाद्भवति तत्रोपचरितः प्रत्ययः । नचात्रोपचारनिबन्धनं किश्चिदस्ति । तदप्यसङ्गतम्। संसार्यात्मनः शरीराद्युपकृतलेन तदनुबद्धस्योपभोगाश्रयत्वेनोपभोगकर्तृत्वस्याप्युपचारनिमित्तस्य सद्भावात्। दृष्टश्च शरीरादिव्यतिरिक्तेऽप्यत्यन्तोपकारके खभृत्यादावुपचरितस्तन्निमित्तो योऽयं भृत्यः सोऽहमिति प्रत्ययः । नच सुखादिसामानाधिकरण्येनोपजायमानस्यैवाहंप्रत्ययस्योपचरितविषयतेति वक्तुं शक्यम् । अनावग्निप्रत्ययवदबाधितत्वेनास्खलद्रूपत्वेन चास्याऽत्र मुख्यलात्; गौरत्वादेस्तु पुद्गलधर्मत्वेन बाह्येन्द्रियग्राह्यतयाऽन्तर्मुखाकारानिन्द्रियाहंप्रत्ययविषयत्वासंभवात्। नच गौरवादिरूपाश्रयभूतस्य प्रतिक्षणविशरारु
वेनाभ्युपगमविषयस्य शरीरस्य य एवाहं प्राग्मित्रं दृष्टवान् स एवाहं वर्षपञ्चकादिव्यवधानेन स्पृशामीति स्थिरालम्बनत्वेनानुभूयमानप्रत्ययविषयत्वं युक्तम् । अन्यथा रूपविषयत्वेनानुभूयमानस्य तस्य रसाद्यालम्बनलं स्यात्। नच सुखादिविवर्तात्मकात्मालम्बनले किञ्चिद्वाधकमुत्पश्यामः; येन तद्विषयत्वेनास्य भ्रान्तत्वं स्यात् । नापि तत्र तस्य स्खलद्रूपता; येन वाहीके गोप्रत्ययस्येवोपचरितत्वकल्पना युक्तिमती स्यात्। तस्मादबाधितास्खलद्रूपाऽहंप्रत्ययग्राह्यत्वादात्मनो नासिद्धिः। शेषस्तु पूर्वपक्षग्रन्थो निःसारतया न प्रतिसमाधानमर्हतीत्युपेक्षितः। नचात्र बौद्धमतानु