________________
तत्वबोधविधायिनी व्याख्या ।
सर्वज्ञसाधकप्रयोगे दृष्टान्तस्य साध्यविकलताप्रसक्तिः । तथा समस्तसदसद्वर्गग्राहकेण सर्वविज्ज्ञानेन ज्ञानात्मा गृह्यते, उत नेति । यदि न गृह्यते, तदा तस्य प्रमेयत्वे सति तेनैव प्रमेयत्वलक्षणो हेतुर्व्यभिचारी; अप्रेमयत्वे तस्य भागासिद्धो हेतुः । अथ सर्वज्ञज्ञानेन सर्वपदार्थग्राहिणा आत्माऽपि गृह्यत इति नानैकान्तिकः । नन्वेवं सति यथेश्वरज्ञानं ज्ञानत्येऽप्यात्मानं स्वयं गृह्णाति, नच तत्र स्वात्मनि क्रियाविरोधः, तथाऽस्मदादिज्ञानमप्येवं भविष्यतीति न कश्चिद्विरोधः । किञ्च । एवमभ्युपगमे ज्ञानं ज्ञानान्तरग्राह्यं प्रमेयत्वात् घटवदित्यत्र प्रयोगे ईश्वरज्ञानस्य प्रमेयत्वे सत्यपि ज्ञानान्तरग्राह्यत्वाभावात्तेनैवानैकान्तिकः प्रमेयत्वादिति हेतुः । तस्मात् ज्ञानस्य ज्ञानान्तरग्राह्यत्वेऽनेकदोषसंभवात् स्वसंविदितं ज्ञानमभ्युपगन्तव्यम् । ज्ञानस्वरूपश्चात्मा। अन्यथा भिन्नज्ञानसद्भावादाकाशस्येव तस्य ज्ञातृत्वं न स्यात् । नचाकाशव्यतिरेकेण ज्ञानमात्मन्येव समवेतमिति तस्यैव ज्ञातृत्वं नाकाशादेरिति वक्तुं युक्तम् । समवायस्य निषेत्स्यमानत्वात् । ज्ञानस्य च स्वसंविदितत्वे सिद्धे आत्मनोऽपि तदव्यतिरिक्तस्य तत् सिद्धमिति कथं न स्वसंवेदन प्रत्यक्षसि - द्धत्वमात्मनः; तन्न प्रथमपक्षस्य दुष्टत्वम् । द्वितीयपक्षेऽपि यदुक्तम् । नहि कश्चित् पदार्थः कर्तृरूपः, करणरूपो वा स्वात्मनि कर्मणीव सव्यापारो दृष्ट इति । तदप्यसङ्गतम्। भिन्नव्यापारव्यतिरेकेणापि आत्मनः कर्तुः, प्रमाणस्य च ज्ञानस्य स्वसंविदितत्वप्रतिपादनात् । एकस्यैव च लिङ्गादिकरणमपेक्ष्यावस्थाभेदेन यथा प्रमातृत्वं, प्रमेयत्वं च भवद्भिरविरुद्धत्वेनाभ्युपगम्यते, तथैकदाऽप्येकस्यात्मनः अनेकधर्मसद्भावात्प्रमातृत्वप्रमाणत्वप्रमेयत्वान्यविरुद्धानि किं नाभ्युपगम्यन्ते ? । तत्तद्धर्मयोगात् तत्तत्स्वभावत्वस्य प्रमाणनिश्चितत्वेनाविरोधात् । यच्चोक्तम् । प्रमाणाविषयत्वेऽप्यपरोक्षतेति; अस्य कोऽर्थ इत्यादि । तदप्यसारम् । ज्ञातृतया, प्रमाणत्वेन च खरूपावभासनस्य प्रतिपादितत्वात् । नच घटादेः खरूपस्य भिन्नज्ञानग्राह्यत्वात् प्रमातुः, प्रमाणस्य च स्वरूपं भिन्नज्ञानग्राह्यम् । तयोश्चिद्रूपत्वेन घटादेस्तु तद्विपर्ययेण स्वरूपसिद्धत्वात् । नच प्रमाणप्रमातृस्वरूपग्राहकस्य प्रत्यक्षस्य तल्लक्षणेनासंग्रहः । तत्संग्राहकस्य लक्षणस्य प्रदर्शितत्वात् । यदपि घटमहं चक्षुषा पश्यामीति, अनेमातिप्रसङ्गापादनं कृतम् । तदप्यसङ्गतम्। नहि चक्षुषो जडरूपस्याखसंविदितत्वे प्रमा
१४९