________________
सम्मतितर्द्धाख्यप्रकरणस्य
पगतम्। तथाचाध्यक्षज्ञानवत् शाब्देऽपि तस्यैवान्यूनानतिरिक्तस्य विषयस्याधिगमे न प्रतिपत्तिभेद इति अध्यक्षवच्छाब्दमपि स्पष्टप्रतिभासं स्यात् । अथैकविषयत्वे सत्यपि इन्द्रियसंबन्धाभावाच्छन्दविषये प्रतिपत्तिभेदः । नन्वक्षैरपि विषयस्वरूपमुद्रासनीयम् । तच्च यदि शाब्देनापि प्रदर्श्यते, तथा सति इन्द्रियसंबन्धाभावेऽपि किमिति न स्पष्टावभासः शाब्दस्य । नहि विषयभेदमन्तरेण ज्ञानावभासभेदो युक्तः । अन्यथा ज्ञानावभासभेदाद् विषयभेदव्यवस्था न स्यात् । नहि बहिरपि तदवभासभेदसंवेदनव्यतिरेकेणान्यद्भेदव्यवस्थानिबन्धनमुत्पश्यामः । अन्यच्च प्रत्यक्षेऽपि साक्षादिन्द्रियसंबन्धोऽस्तीति न स्वरूपेण ज्ञातुं शक्यः । तस्यातीन्द्रियत्वात् किन्तु स्वरूपप्रतिभासात्कार्यात् । तच्चाविकलं यदि शाब्देऽपि वस्तुस्वरूपं प्रतिभाति, तदा तत एवेन्द्रियसंबन्धस्तत्रापि किं नाभ्युपगम्यते ? | अथ तत्र स्पष्टप्रतिभासाभावान्नासावनुमीयते । ननु तदभावस्तदक्षसंगतिविरहात्, तदभावश्च स्फुटप्रतिभासाभावादिति सोऽयमितरेतराश्रयदोषः । तस्माद्विषयभेदनिबन्धन एव ज्ञानप्रतिभासभेदावसायोऽभ्युपगन्तव्यः । स चैकविषयत्वे शाब्दाध्यक्षज्ञानयोर्न संगच्छते । अथ शब्दैर्वस्तुरूपावभासेऽपि न सकलतद्गत विशेषावभास इत्यस्पष्टप्रतिभासं तत् । नन्वेवं प्रत्यक्षावभासिनो विशेषस्यार्थक्रियाक्षमस्य तत्राप्रतिभासनात्तदेष भिन्नविषयत्वं शब्दाध्यक्षयोः प्रसक्तम्। अथोभयत्रापि व्यक्तिखरूपमेकमेव नीलादित्वं प्रतिभाति, विशदाविशदौ वाकारौ ज्ञानात्मभूतौ । नन्वेवमक्षसंबद्धे विषये प्रतिभासमाने तत्कालः स्पष्टत्वावभासो ज्ञानावभास इति प्राप्तम् । विशिष्टसामग्रीजन्यस्य ज्ञानस्य विशदत्वात् । तदवभासव्यतिरेकेण तु अक्षसंबद्ध नीलप्रतिभास कालेऽन्यस्य भवदभ्युपगमेन वैशद्यप्रतिभासनिमित्तस्यासंभवात् । अथ भवतु विशदज्ञानप्रतिभासनिमित्त एव तत्र वैशद्यप्रतिभासव्यवहारः, तथापि न स्वसंविदिततज्ज्ञानसिद्धिः । तदेकार्थसमवेतज्ञानान्तरवेद्यत्वेऽपि तद्व्यवहारस्य संभवात् । एककालावभासव्यवहारस्तु लघुवृत्तित्वान्मनसः क्रमानुपलक्षणनिमित्तः, उत्पलपत्रशतव्यतिभेदवत् । नन्वेवं सत्यङ्गुलिपश्चकस्यैकज्ञानावभासोऽपि क्रमावभासे सत्यपि तत एव क्रमप्रतिभासानुपलक्षणकृत इति सदसद्वर्गः सर्वः कस्यचिदेकज्ञानप्रत्यक्षः प्रमेयत्वात्पञ्चाङ्गुलिवदिति
१४८