________________
तत्त्वबोधविधायिनी व्याख्या ।
१४७ दकस्यानुमानस्य, प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तकालात्ययापदिष्टत्वदोषदुष्टहेतुप्रभवत्वेनानुमानाभासत्वात्। नच प्रत्यक्षसिद्धे स्वभावे विरोधः सिद्ध्यति। अन्यथा ज्ञानस्यापि ज्ञानवविरोधप्राप्तिः। नन्वेवं नीलादिसंवेदनस्यापि हृदि स्वसंवेदनविषयतयाऽनुभवान्न वसंवेदितत्वमसिद्धम् ; नापि स्वात्मनि क्रियाविरोधोद्भावनं युक्तियुक्तम् । अनुभूयमाने विरोधासिद्धेः । अस्वसंवेदनज्ञानसाधकत्वेनोपन्यस्यमानस्य च हेतोः प्रत्यक्षनिराकृतपक्षाविषयत्वेन न साध्यसाधकत्वमिसपि समानम् । किंच । खसंविदितज्ञानानभ्युपगमे प्रतीयतेऽयमर्थो बहिर्देशसंबन्धितयेत्पत्र प्रतीतेर्व्यवस्थापिकाया अप्रतीतत्वेनाऽव्यवस्थितौ व्यवस्थाप्यस्यार्थस्य न व्यवस्थितिः स्यात् । नहि स्वयमव्यवस्थितं खरविषाणादि कस्यचिद् व्यवस्थापकमुपलब्धम् । अथ प्रतीतेरसंविदितत्वेऽपि एकार्थसमवेतानन्तरप्रतीतिव्यवस्थापितत्वेन नाव्यवस्थितत्वं, तर्हि तदेकार्थसमवेतानन्तरप्रतीतेरपि अपरतथाभूतप्रतीत्यवस्थापितत्वेनाऽर्थव्यवस्थापनप्रतीतिव्यवस्थापकत्वमिति पुनरपि तथाभूताऽपरा प्रतीतिः प्रतीतिव्यवस्थापिकाऽभ्युपगन्तव्येत्यनवस्था। अथ प्रतीतिव्यवस्थापिका प्रतीतिः स्वसंविदितत्वेन खयमेव व्यवस्थितेति नायं दोषः, तीर्थव्यवस्थापिकाऽपि प्रतीतिस्तथा किं नाभ्युपगम्यते? । न्यायस्य समानत्वात् । अथ प्रतीतिरप्रतीताऽपि प्रतीत्यन्तरव्यवस्थापिका, तर्हि प्रथमप्रतीतिरप्यव्यवस्थिताऽप्यर्थव्यवस्थापिका भविष्यतीति, 'नागृहीतविशेषणा विशेष्ये बुद्धिः' इति वचः कथं न परिप्लवेत?। प्रतीतोऽर्थ इति विशेष्यप्रतिपत्तौ प्रतीतिविशेषणानवगमेऽपि विशेष्यप्रतिपत्त्यभ्युपगमात् । अपि च । यदि तदेकार्थसमवेतज्ञानान्तरग्राह्यं ज्ञानमर्थग्राहकमभ्युपगम्यते, तदा पूर्वपूर्वज्ञानोपलम्भनस्वभावानामुत्तरोत्तरज्ञानानामनवरतमुत्पत्तेर्विषयान्तरसंचारो ज्ञानानां न स्यात् । विषयान्तरसंनिधानेऽपि पूर्वज्ञानलक्षणस्य तदेकार्थसमवेतस्यान्तरङ्गत्वेनातिसंनिहिततरस्य विषयस्य सद्भावात् । यस्त्वाह । विषयोपलम्भनिमित्तमात्रप्रतिपत्तौ प्रतीतिविशेषणस्यार्थस्य सिद्धत्वात् नानवस्था । तदेतदेव न संगच्छते । स्वसंवेदनज्ञानानभ्युपगमात् । एतच्च प्रतिपादितम् । अपि च । प्रमाणसंप्लववादिना नैयायिकेन प्रत्यक्षशाब्दज्ञानयोरेकविषयत्वमभ्यु