________________
सम्मतिताख्यप्रकरणस्यदयः स्वप्रकाशाः; बोधस्तु नित्यो ऽनित्यो वा तत्काले केवलमुहाति, नतु वेदकः। द्वयोरपि परस्परं ग्राह्यग्राहकतापत्तेः । अथ नीलोन्मुखत्वाद्बोधो ग्राहकः। किमिदं तदुन्मुखवं नाम बोधस्य । यदि नीलकाले सत्ता; सा नीलस्यापि तत्काले समस्तीति नीलमपि बोधस्य वेदकं स्यात् । अथान्यदुन्मुखत्वं तत, तर्हि खरूपनिमनं चकासत्तृतीयस्वरूपं भवेत् । तथाहि । तस्य तदुन्मुखत्वं तद्यापारः । स व व्यापारो यदि नीले व्याप्रियते, तदा तत्राप्यपरो व्यापार इत्यनवस्था । अथ न व्याप्रियते, न तबलाबोधस्य ग्राहकत्वं, नीलादेस्तु ग्राह्यत्वम् । अथ व्यापारस्यापरव्यापारव्यतिरेकेणापि नीलं प्रति व्यापृतिरूपता । तस्य तद्रूपत्वात् । ननु नीलस्यापि खं स्वरूपं विद्यत इति बोधं प्रति ग्रहणव्यापृतिः स्यात् । किञ्च । बोधेन यदि नीलं प्रति ग्रहणक्रिया जन्यते सा नीलाद्भिन्ना अभिन्ना वा। भिन्ना चेत्, न तया तस्य ग्राह्यलम्।भिन्नत्वादेव।अथाभिन्ना, तर्हि नीलादेर्ज्ञानरूपता।ज्ञानजन्यत्वादुतरज्ञानक्षणवत् । अथ ज्ञानस्य एवंभूता शक्तिर्येन तस्य नीलं प्रति ग्राहकता, नीलादेस्तु तं प्रति ग्राह्यता। ननु बोधस्य ग्राहकवे, नीलादेस्तु ग्राह्यत्वे सिद्धे शक्तिपरिकल्पना युक्ता । शक्तेः कार्यानुमेयत्वात्। तदसिद्धौ तु तत्परिकल्पनमयुक्तम् । इतरेतराश्रयप्रसङ्गात् । तथाहि । बोधस्य शक्तिविशेषसिद्धेनीलं प्रति ग्राहकल. सिद्धिः, तत्सिद्देश्व तच्छक्तिसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् ; तन्न बोधस्य नीलं प्रति ग्राहकत्वसिद्धिः । तस्माद्यतिरिक्तेऽपि बोधेऽभ्युपगते सहोपलम्भनियमात् स्वसं. वेदनमेव युक्तम् । परमार्थतस्तु सुखादयो नीलादयश्वापरोक्षा इत्येतावदेव भाति । निराकारस्तु षोधः खप्नेऽपि नोपलभ्यत इति न तस्य सद्भाव इति कथं तस्यार्थग्राहकत्वम् ?।अत एव ते प्रमाणयन्ति । इह खलु यत्प्रतिभाति, तदेव सद्व्यवहृतिपथमवतरति; यथा हृदि प्रकाशमानवपुः सुखम्, न तत्काले पीडाऽनुदासमाना समस्ति, विज्ञप्तिरेव च नीलादिरूपतया सकलतनुभृतामाभातीति स्वभावहेतुः । तदेवमर्थग्राहकत्वस्याप्यसिद्धेः, जडस्य प्रकाशविरुद्धत्वाच्च नार्थग्राहकलमपि बौद्धदृष्ट्या युक्तम् । अथ बहिर्देशसंबद्धस्य जडस्यापि नीलादेरनुभवान्न नीलादिप्रकाशस्य तद्ग्राहकत्वमसिद्धम् ; नाप्यनुभूयमाने स्तम्भादिके जडे प्रकाशविषयत्वविरोधोडावनं युक्तिसंगतम् । प्रत्यक्षसिद्धे खभावे च सति तद्विरुद्धस्वभावावे