________________
तत्त्वबोधविधायिनी व्याख्या । परदृशोऽनधिगमे नीलादेस्तद्वेद्यताऽनधिगतेः । अथानुमानेन नीलादीनां साधा- . रणता प्रतीयते । यथैव हि वसन्ताने नीलदर्शनात् तदादानार्थी प्रवृत्तिस्तथाऽपरसन्तानेऽपि प्रवृत्तिदर्शनात् , तद्विषयं दर्शनमनुमीयते । नैतदप्यस्ति । अनुमानेन खपरदर्शनभृतो नीलादेरेकताऽसिद्धेः; तद्विसदृशव्यवहारदर्शनादुपजायमानं खदृष्टसदृशतां परदृष्टस्य प्रतिपादयेत् । यथाऽपरधूमदर्शनात् पूर्वसदृशं दहनमधिगन्तुमीशो, नतु तमेव पूर्वदृष्टम् । सामान्येनान्व. यपरिच्छेदात् । नानुमानतोऽपि ग्राह्याकारस्यैकता। ननु भेदोऽप्यस्य न सिद्ध एव । प्रतिभासभेदे सति कथमसिद्धः परप्रतिभासपरिहारेण स्वप्रतिभासात् , स्वप्रतिभासपरिहारेण च परप्रतिभासात, विवेकखभावान् व्यतिरेचयति ?। अन्यथा तस्यायोगात् । ततः स्वपरदृष्टस्य नीलादेः प्रतिभासभेदात् व्यवहारे तुल्येऽपि भेद एव । इतरथा रोमाञ्चनिकरसदृशकार्यदर्शनात् सुखादेरपि वपरसन्तानभुवस्तत्त्वं भवेत् । अथापि सन्तानभेदात् सुखादेर्भेदः । ननु सन्तानभेदोऽपि किमन्यभेदात्, तथा चेदनवस्था । अथ तस्य स्वरूपभेदाढ़ेदः, सुखादेरपि तर्हि स एवास्तु । अन्यथा भेदासिद्धेः । नान्यभेदादन्यद्भिन्नम् । अतिप्रसङ्गात् । नीलादरपि खपरभासिनः प्रतिभासभेदोऽस्तीति नैकता । अथ देशैकत्वादेकत्वम् । ननु देशस्यापि स्वपरदृष्टस्यानन्तरोक्तन्यायात् नैकता युक्ता । तस्माद्राहकाकारवत्प्रतिपुरुषमुद्रासमाननीलादिकमपि भिन्नमेव । तच्चैककालापेलम्भात् , प्राहकवत् स्वप्रकाशम् । अथ ग्राहकाकारश्चिद्रूपत्वाद्वेदको, नीलाकारस्तु जडत्वाद्वाह्यः । अत्रोच्यते । किमिदं बोधरय चिद्रूपत्वम् ? । यद्यपरोक्षं स्वरूपं, नीलादेरपि तर्हि तदस्तीति न जडता । अथ नीलादेरपरोक्षस्त्ररूपमन्यस्माद्भवतीति ग्राह्यम् । ननु बोधस्यापि स्वस्वरूपमिन्द्रियादेर्भवतीति प्राह्यं स्यात् । अथ यदिन्द्रियादिकार्य न तद्वेद्यम् । नीलादिकमपि तर्हि नयनादिकार्यमस्तु न तु ग्राह्यम् । अथापि बोधो बोधस्वरूपतया नित्यः, नीलादिकस्तु प्रकाश्यरूपतयाऽनित्य इति ग्राह्यः । तदप्यसत् । स्तम्भादेर्नयनादिबलादुदेति रूपमपरोक्षत्वम् । तदनित्यः स्तम्भादिर्भवतु, ग्राह्यस्तु कथम् ?। नहि यद्यस्मादुत्पद्यते, तत्तस्य वेद्यम् । अतिप्रसङ्गात् । तस्मादपरोक्षस्वरूपाः स्तम्भा