________________
१४४
सम्मतिताख्यप्रकरणस्यव्यवसायात्प्रागर्थः सिद्यति; प्रागर्थसत्तां विना दृश्यमानस्य पूर्वदृष्टेन एकत्वगतेरयोगात् । केन पुनरेकत्वं तयोर्गम्यते। किमिदानीन्तनदर्शनेन, पूर्वदर्शनेन वा। न तावत्पूर्वदर्शनेन। तत्र तत्कालावधेरेवार्थस्य प्रतिभासनात्। नहि तेन खप्रतिभासिनोऽर्थस्य वर्तमानकालदर्शनव्याप्तिरवसीयते । तत्काले साम्प्रतिकदर्शनादेरभावात् । नचासत्प्रतिभाति । दर्शनस्य वितथत्वप्रसङ्गात् । नापीदानीन्तनदर्शनेन पूर्वदर्शनादिव्याप्तिर्नीलादेरवसीयते । तदर्शनकाले पूर्वदृक्कालस्यास्तमयात् । नचास्तमितपूर्वदर्शनादिसंस्पर्शमवतरति प्रत्यक्षम्। वितथत्वप्रसंगादेव । तस्मादपास्ततत्पूर्वगादियोगं सर्व वस्तु दृशा गृह्यते, पूर्वदृष्टतांतु स्मृतिरुल्लिखति । तदपास्तम्।दृष्टतोल्लेखाभावात्।नच स एवायमिति प्रतीतिरेका।स इति स्मृतिरूपम्, अयमिति तु दृशः स्वरूपम् ; तत्परोक्षापरोक्षाकारत्वान्नैकस्वभावौ प्रत्ययौ; तत्कुत. स्तत्त्वसिद्धिः। अथानुमानात्प्राग्भावोऽर्थस्य सिद्ध्यति;प्राक्सत्तां विना पश्चादर्शनायोगादिति । तदप्यसत्।यतः पश्चाद्दर्शनस्य प्राक्सत्तायाः संबन्धो न सिद्धः, प्राक्ससायाः कथञ्चिदप्यसिद्धेः। नचासिद्धया सत्तया व्याप्तं पश्चाद्दर्शनं सियति; येन ततस्तत्सिद्धिः। अथ यदि प्रागर्थमन्तरेण दर्शनमुदयमासादयति, तथा सति नियामकाभावात् सर्वत्र सर्वदा सर्वाकार तद्भवेत्। नायमपि दोषः। नियतवासनाप्रबोधेन संवेदननियमात्। तथाहि।स्वप्नावस्थायां वासनाबलाद्दर्शनस्य देशकालाकारनियमो दृष्ट इति जाग्रहशायामपि तत एवासौ युक्तः । अर्थस्य तु न सत्ता सिद्धा । नापि तद्भेदात् संवित्तिनियम इति तन्न ततः संविद्वैचित्र्यम् । तस्मान्न कथञ्चिदपि नीलादेः प्राक् सत्तासिद्धिः अथ पूर्वसत्ताविरहे किं प्रमाणम्। नन्वनुपलब्धिरेव प्रमाणम्।यदि नीलं पूर्वकालसंबन्धिखरूपं स्यात्तेनैव रूपेणोपलभ्येत, नच तथा दर्शनकालभुवः । सर्वदाऽप्रतिभासनात्। यच्च येनैव रूपेण प्रतिभाति, तत्तेनैव रूपेणास्ति । यथा नीलं नीलरूपतयाऽवभासमानं तथैव सत् न पीतादिरूपतया । सर्व चोपलभ्यमानं रूपं वर्तमानकालतयैव प्रतिभाति, न पूर्वादितया, तन्न पूर्व सत्ताऽर्थस्य । अथ नीलं, तद्दर्शनविरतावपि परदृशि प्रतिभातीति साधारणतया ग्राह्यम् ; विज्ञानं त्वसाधारणतया प्रकाशकम् ।नैतदपियुक्तम्।यतो नीलस्य न साधारणतया सिद्धः प्रतिभासः। प्रत्यक्षेण खप्रतिभासिताया एवावगतेः। नहि नीलं परदृशि प्रतिभातीत्यत्र प्रमाणमस्ति।