________________
तत्त्वबोधविधायिनी व्याख्या । नीलबोधव्यतिरिक्ता क्रिया, तथापि किं तस्या अपि खतः प्रतीतिर्यद्वाऽन्यतः । तत्र यदि स्वतो ग्रहणक्रिया प्रतिभाति; तथा सति बोधो, नीलं, ग्रहणक्रिया चेति त्रयं स्वरूपनिमग्नमेककालं प्रतिभातीति न कर्तृकर्मक्रियाव्यवहृतिः । अथान्यतो ग्रहणक्रिया प्रतिभाति । ननु तत्राप्यपरा ग्रहणक्रियोपेया । अन्यथा तस्या ग्राह्यताऽसिद्धेः; पुनस्तत्राप्यपरा कर्मतानिबन्धनं क्रियोपेयेत्यनवस्था । तन्न ग्रहणक्रियाऽपराऽस्ति । तत्स्वरूपाऽनवभासनात् । ततश्चान्तःसंवेदनं, बहिर्नीलादिकं च स्वप्रकाशमेवेति स्वसंवित्तिमात्रवादः साधीयान् यदि, तपन्तनिलीनो बोधो नीलादेन बोधकः, किन्तु स्वप्रकाश एवासौ । तथा सति नीलमहं वेद्मीति कर्मकर्तृभावाभिनिवेशी प्रत्ययो न भवेत् । विषयस्य कर्मकर्तृभावस्याभावात् । ननु विषयमन्तरेणापि प्रत्ययो दृष्ट एव, यथा शुक्तिकायां रजतावगमः। अथ बाधकोदयात्पुनन्तिरसौ; नीलादौ तु कर्मतादेर्न बाधाऽस्तीति सत्यता । नन्वत्रापि बोधनीलादेः स्वरूपासंसक्तस्य द्वयस्य स्वातन्त्र्योपलम्भोऽस्ति बाधकः कर्मकर्तृभावोल्लेखस्य । अथ किमस्या भ्रान्तेर्निबन्धनम् , नहि भ्रान्तिरपि निर्बीजा भवति । ननु पूर्वभ्रान्तिरेवोत्तरकर्मकर्तृभावावगतेर्निबन्धनम् । पूर्वभ्रान्तिकर्मतादेरपि अपरा पूर्वभ्रान्तिरित्यनादिन्तिपरंपरा कर्मतादिन तत्त्वम् । अथवा नीलमिति प्रतीतिस्तावन्मात्राध्यवसायिनी पृथक्, अहमित्यपि मतिरन्तरुल्लेखमुद्वहन्ती भिन्ना; वेद्मीत्यपि प्रतीतिरपरैव । ततश्च परस्परासंसक्तप्रतीतित्रितयं क्रमवत्प्रतिभाति, न कर्मकर्तृभावः । तुल्यकालयोस्तस्यायोगात् । भिन्नकालयोरप्यनवभासनान्न कर्मतादिगतिः कथञ्चित् संभविनी । अथापि दर्शनात प्राक् सन्नपि नीलात्मा न भाति, तदुदये च भातीति कर्मता तस्य । नैतदपि साधीयः । यतः प्राग्भावोऽर्थस्य न सिद्धः । दर्शनेन स्वकालावधेरर्थस्य ग्रहणात्, दर्शनकाले हि नीलमाभाति, नतु ततः प्राक्। तत्कथं पूर्वभावोऽर्थस्य सियेत् । तस्य दर्शनस्य पूर्वकाले विरहात् । नच तत्काले दर्शनं प्रागर्थसन्निधिं व्यनक्ति । सर्वदा तत्प्रतिभासप्रसङ्गात् । अथाऽन्येन दर्शनेन प्रागर्थः प्रतीयते । ननु तद्दर्शनादपि प्राक् सद्भावोऽर्थस्यान्येनावसेय इत्यनवस्था। तस्मात्सर्वस्य नीलादेर्दर्शनकाले प्रतिभासनान्न तत्पूर्व सत्ता सिद्यति। अथापि पूर्वदृष्टं पश्यामीति