________________
१४२
सम्मतिताख्यप्रकरणस्य
गतस्य न वक्त्रवक्ता समुपजायते। तथाहि । असावप्येवं वक्तुं समर्थः । जडं वस्तु न स्वतः प्रकाशते । विज्ञानवज्जडवहानिप्रसङ्गात् । नापि परतः प्रकाशमानम् । नीलसुखादिव्यतिरिक्तस्य विज्ञानस्यासंवेदनेनासत्त्वात् । अथ नीलस्य प्रकाश इति प्रकाशमाननीलादिव्यतिरिक्तस्तत्प्रकाशः । अन्यथा भेदेनास्याप्रतिपत्तौ संवेदनस्य तत्प्रतिभासो न स्यात् । ननु न नीलतवेदनयोः पृथगवभासः प्रत्यक्षसंभवी । प्रकाशविविक्तस्य नीलादेरननुभवात्तद्विवेकेन च बोधस्याप्रतिभासनात् । नचाध्यक्षतो विवेकेनाप्रतीयमानयोर्नीलतत्संविदोर्भेदो युक्तः । विवेकादर्शनस्य भेदविपर्ययाश्रयत्वान्नीलतत्स्वरूपवत् । अथापि कल्पना नीलतत्संविदोर्भेदमुल्लिखति, नीलस्यानुभव इति । नन्वभेदेऽपि भेदोल्लेखो दृष्टः । यथा शिलपुत्रकस्य वपुः, नीलस्य वा स्वरूपमिति । अथ तत्र प्रत्यक्षारूढोऽभेदो बाधक इति न भेदोल्लेखः सत्यः, स तर्हि नीलसंविदोरपि प्रत्यक्षारूढोऽभेदोऽस्तीति न भेदकल्पना सत्या। तदेवं नीलादिकं सुखादिकं वस्तु प्रकाशवपुः प्रतिभातीति स्थितम् । तद्व्यतिरिक्तस्य प्रकाशस्याप्रतिभासनेनाभावात्।भवतु वा व्यतिरिक्तो बोधस्तथापिन तबाह्या नीलादयो युक्ताः। तथाहि । तुल्यकालो वा बोधस्तेषां प्रकाशको, भिन्नकालो वा । तुल्यकालोऽपि परोक्षः, स्वसंविदितो वा । न तावत्परोक्षः । यतोऽप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यतीत्यादिना खसंविदितलं ज्ञानस्य प्रसाधयन्त एतत्पक्षं निराकरिष्यामः । नापि ज्ञानान्तरवेद्यः । अनवस्थादिदूषणस्यात्र पक्षे प्रदर्शयिष्यमाणवात् । स्वसंवेदनपक्षे तु यथाऽन्तर्निलीनो बोधः स्वसंविदितः प्रतिभाति; तथा तत्काले खप्रकाशवपुषो नीलादयो बहिर्देशसंबन्धितया प्रतिभान्ति इति समानकालयोर्नीलतत्संवेदनयोः स्वतन्त्रयोः प्रतिभासनात् सव्येतरगोविषाणयोरिव न वेद्यवेदकभावः। समानकालस्यापि बोधस्य नीलं प्रति ग्राहकत्वे नीलस्यापि संप्रति ग्राहकताप्रसङ्गः।समानकालप्रतिभासाऽविशेषेऽपि बुद्धिर्नीलादीनां ग्रहणमुपरचयतीति ग्राहिका, नीलादयस्तु ग्राह्याः। नैतदपि युक्तम् । यतो नीलबोधव्यतिरिक्ता न ग्रहणक्रिया प्रतिभाति । तथाहि । बोधः सुखास्पदीभूतो हृदि, बहिः स्फुटमुद्भासमानतनुश्च नीलादिराभाति, नत्वपरा ग्रहणक्रिया प्रतिभासविषयः । तदनवभासे च न तया व्याप्यमानतया नीलादेः कर्मता युक्ता । भवतु वा