________________
तत्त्वबोधविधायिनी व्याख्या ।
१४१ वादगोचरेऽध्यक्षप्रतीतेऽपि दृष्टान्तान्वेषणं लोके सुप्रसिद्धमिति; सोऽत्रापि वक्तव्यः। तदाऽस्त्येव प्रदीपादिलक्षणो दृष्टान्तोऽपि, ज्ञानस्य प्रकाशं प्रति सजातीयापरानपेक्षणे साध्ये । तथाहि । यथा प्रदीपाद्यालोको न खप्रतिपत्तावालोकान्तरमपेक्षते, तथा ज्ञानमपि स्वप्रतिपत्तौ न समानजातीयज्ञानापेक्षम्। एतावन्मात्रेणालोकस्य दृष्टान्तत्वं, न पुनस्तस्यापि ज्ञानत्वमासाद्यते । येनेन्द्रियाग्राह्यत्वाच्चक्षुष्मतामिवान्धानामपि तत्प्रतीतिप्रसङ्ग इति प्रेर्यते । नहि दृष्टान्ते साध्यधर्मिधर्माः सर्वेऽपि आसञ्जयितुं युक्ताः । अन्यथा घटेऽपि शब्दधर्माः शब्दत्वादयः प्रसज्येरनिति तस्यापि श्रोत्रग्राह्यत्वप्रसङ्गः । नच साधर्म्यदृष्टान्तमन्तरण प्रमाणप्रतीतस्थाप्यर्थस्याप्रसिद्धिरिति शक्यं वक्तुम् । अन्यथा जीवच्छरीरस्यापि सात्मकत्वे साध्ये तत्प्रसिद्धदृष्टान्तस्याभावात्प्राणादिमत्त्वादेस्तत्सिद्धिर्न स्यात् । अथ साधHदृष्टान्ताभावेऽपि दृष्टवैधर्म्यदृष्टान्तस्य घटादेः सद्भावात् केवलव्यतिरेकिबलात्तत्र तत्सिद्धिस्तर्हि यत्र स्वप्रकाशकत्वं नास्ति तत्रार्थप्रकाशकत्वमपि नास्ति, यथा घटादाविति व्यतिरेकदृष्टान्तसद्भावादर्थप्रकाशकत्वलक्षणाद्धेतोः खप्रकाशकत्वं विज्ञानस्य किमिति न सिद्धिमासादयति ? । यत्तूक्तम् । कस्यचिदर्थस्य काचित्सामग्री, तेन प्रकाशः प्रकाशान्तरनिरपेक्ष एव खग्राहिणि ज्ञाने प्रतिभाति । तदयुक्तमेव । यथा हि खसामग्रीत उपजायमानाः प्रदीपालोकादयो न समानजातीयमालोकान्तरं स्वग्राहिणि ज्ञाने प्रतिभासमाना अपेक्षन्ते, तथा खसामग्रीत उपजायमानं विज्ञानं स्वार्थप्रकाशस्वभावं स्वप्रतिपत्तौ न ज्ञानान्तरमपेक्षते । प्रतिनियतत्वात् खकारणायत्तजन्मनां भावशक्तीनाम् । यत्तु प्रदीपालोकादिकं सजातीयालोकान्तरनिरपेक्षमपि वप्रतिपत्तौ ज्ञानमपेक्षते, तत्तस्याज्ञानरूपत्वात् ; ज्ञानस्य च तद्विपर्ययस्वभावत्वात् युक्तियुक्तमिति नैकत्र दृष्टः खभाव अन्यत्रासञ्जयितुं युक्त इति पूर्वपक्षवचो निःसारतया व्यवस्थितम् । अथालोकस्य तदन्तरनिरपेक्षा प्रतिपत्तिरुपलब्धेति न तदृष्टान्तबलात् ज्ञानस्यापि ज्ञानान्तरनिरपेक्षा प्रतिपत्तिः। अदृष्टत्वात् , स्वात्मनि क्रियाविरोधाच्च। नन्वेवमुपलभ्यमानेऽपि वस्तुनि यद्यदृष्टत्वं, विरोधश्वोच्येत, तदा खात्मवत् घटादेरपि बाह्यस्य न ग्राहकं ज्ञानम्, अदृष्टत्वात् , जडस्य प्रकाशायोगाच्चेत्यपि वदतः सौ