________________
१४०
सम्मतितर्द्धाख्यप्रकरणस्य
1
स्य द्रष्टुर्यदेतन्मम गौरं रूपं सोऽहमिति भवति प्रत्ययः, केवलं मतुब्लोपं कृलैवं निर्दिशति” । अयमर्थः । शरीरेऽहङ्कार औपचारिको, न तात्त्विकः । यथाऽन्यस्मिंस्तत्कार्यकारिण्यत्यन्तनिकटेऽहङ्कारो गौणः, योऽयं सोऽहमिति एवं शरीरेऽपि । यतो निमित्तादयमेतस्मिंस्तूभयसंप्रतिपन्नेऽनात्मरूपे इदंप्रत्ययविषयेऽहङ्कारस्तत एव शरीरेऽपि । आत्मविषयस्त्वहङ्कारो नौपचारिकः । इदंप्रत्ययासंभिन्नाहंप्रत्ययप्रतिभासित्वात् । प्रमाता शरीरादिव्यतिरिक्तः । एतदेव कथम् । ममेदं शरीरमिति प्रत्ययो - पादानात्, ममायमात्मेति प्रत्ययाभावाच्च । ननु ममायमात्मेति किं न भवति प्रत्ययः ॥ न भवतीति ब्रूमः । कथं तर्ह्येवमुच्यते ? । केवलं शब्द उच्चार्यते, नतु प्रत्ययस्य संभवः । अत्रापि ममप्रत्ययप्रतिभासस्यादर्शनात् । शब्दोच्चारणमात्रं केन वार्यते । किमिदानीं सुखादियोगः शरीरस्येष्यते । नैवम् । सुखादियोगाभावात् । मिथ्याप्रत्ययो ऽयं सुख्यहमिति नत्वेतदालम्बनः । अतो व्यवस्थितं ज्ञातृप्रतिभासादर्शनात्, प्रतिभासे वा शरीरस्य ज्ञातृत्वेनावभासनान्न देहादिव्यतिरिक्तस्याहंप्रत्ययविषयता, शरीरस्य च ज्ञातृत्वेनावभासमानस्यापि प्रमाणसिद्धा; बुद्धियोगनिषेधान्मिथ्याप्रत्ययालम्बनता; न तु तस्याचैतन्येऽन्यः कश्चिद् ज्ञाता प्रत्यक्षप्रमाणविषयः सिद्ध्यतीत्यादि । तदप्यसङ्गतम् । यतो भवतु जैमिनीयानां "सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म प्रत्यक्षम्” इतिलक्षणलक्षितेन्द्रियप्रत्यक्षवादिनाममित्यवभासप्रत्ययस्यानिन्द्रियजत्वेनात्राप्रत्यक्षदोषो, नास्माकं जिनमतानुसारिणाम् । नह्यस्माकमिन्द्रियजमेव प्रत्यक्षं, किंतु यद्यत्र विशदं ज्ञानमिन्द्रियानिन्द्रियनिमित्तं तत्तत्र प्रत्यक्षामित्यभ्युपगमात्, "तदिन्द्रियानिन्द्रियनिमित्तम्" इति वाचकमुख्यवचनात् । तेन यथा प्रत्यक्षविषयत्वेन घटादेः प्रत्यक्षता, तथाऽऽत्मनोऽपि स्वसंवेदनाध्यक्षतायां को विरोध: ? । अतएव यदुच्यते । घटादेर्भिन्नज्ञानग्राह्यत्वेन प्रत्यक्षता व्यवस्थाप्यते; आत्मनस्त्वपरोक्षत्वेन प्रतिभासनात्प्रत्यक्षत्वम् । तच्च केवलस्य, घटादिप्रतीत्यन्तर्गतस्य वाऽपरसाधनं प्राक् प्रतिपादितमित्यत्रापरसाधनमिति कोऽर्थः-किं चिद्रूपस्य सत्ता, आहोखित् खप्रतीतौ व्यापार इति पक्षद्वयमुत्थाप्य, प्रथमपक्षे चिद्रूपस्य सत्चैवात्मप्रकाशनं यद्युच्यते तदा दृष्टान्तो वक्तव्य इति । तन्निरस्तम्। अध्यक्षप्रतीतेऽर्थे दृष्टान्तान्वेषणस्यायुक्तत्वात् । अथ वि