________________
तत्त्वबोधविधायिनी व्याख्या ।
१३९ चित्प्रत्यक्षादिलक्षणेनात्मादिविषयस्य स्वसंवेदनस्यासंग्रहात् । इतोऽप्युक्तं, प्रमातृवफलेऽपि संवेदनाभ्युपगमप्रसङ्गात्। तथाऽभ्युपगमाददोष इति चेत्। तथा चोक्तम्। 'संवित्तिः संवित्तितयैव संवेद्या, न संवेद्यतया'इति । एतत्प्राक् प्रतिक्षिप्तम् । न खरूपावभासे प्रमाणाविषयता। किंच । एवं कल्प्यमाने बोधद्वयमान्तरं, स्वसंविद्रूपं च कल्पितं स्यात् । तथाचायुक्तम् । एकस्मादेव विषयावभाससिद्धेः किं द्वयकल्पनया। अथोच्येत, कल्पना ह्यनवभासमानस्य; बोधद्वये तु घटादिवदवभासोऽस्तीति न कल्पना । यदीदृशाः प्रतिभासाः प्रमाणवेन व्यवस्थाप्यन्ते, तदा घटमहं चक्षुषा पश्यामीति करणप्रतीतिरपि प्रमातृफलप्रतीतिवत्कल्पनीया। याऽपि कौश्चित्करणप्रतीतिः प्रत्यक्षवेनोक्ता, साऽपि नातीव संगच्छते । तथाहि । घटमहं चक्षुषा पश्यामीत्यस्यामवगतौ किं गोलकस्य चक्षुष्ट्वम् , आहोस्वित् तद्व्यतिरिक्तस्य । गोलकस्य चक्षुष्ट्वे, न कश्चिदन्धः स्यात् । तद्व्यतिरिक्तस्य च रश्मेरनभ्युपगमः । अभ्युपगमे वा न प्रतीतिविषयः; केवलं शब्दमात्रमुच्चारयति घटप्रतीतिकाले । एवं च प्रमातृफलविषयं शब्दोच्चारणमात्रमवसीयते । नच तयोः प्रतीतिगोचरता, करणस्येव । तथाहि । इन्द्रियव्यापारे सति शरीराद्व्यवच्छिन्नस्य विषयस्यैव केवलस्यावभासनमिति न्यायविदः प्रतिपन्नाः, किं तस्यावभासनमिति पर्यनुयोगे मूकवं परिहारमाहुः । व्यपदेष्टुमशक्यत्वात् । अतः प्रमात्रवभासानुपपत्तिः । नन्वहमिति प्रत्ययः सर्वलोकसाक्षिको नैवापह्नोतुं शक्यः। अनपलवे सविषयो निर्विषयो वा । निर्विषयता प्रत्ययानामबाधितरूपाणां कथम् ? । सविषयत्वेऽपि प्रमात्रप्रतिभासे किंविषयोऽयं प्रत्ययः ? । न प्रत्ययापह्नवः; नचास्य निर्विषयता; किन्तु देहादिव्यतिरिक्तो विषयत्वेनावभासमान आत्माऽस्य न विषयः। नच ज्ञातृवेनावभासमान इत्युच्यते । कस्तर्हि विषयः। शरीरमिति ब्रूमः। तथाहि। कृशोऽहं स्थूलोऽहं गौरोऽहमिति शरीराद्यालम्बनैः प्रत्ययैरस्य समानाधिकरणताऽवसीयते।नन्वेवं सुखादिप्रत्ययैरप्यहङ्कारस्य समानाधिकरणता; सुख्यहं दुःख्यहमिति वा; अतो नदेहविषयता। यच्चोच्यते।गौरोऽहमित्यादिसामानाधिकरण्यदर्शनाच्छरीरालम्बनबमिति।तत्राप्येतद्विचार्यम्। गौरादीनां शरीरादिव्यतिरिक्तानामनहङ्कारास्पदलं दृष्टं, तइच्छरीरादिगतानामपि युक्तं व्यवस्थापयितुम्। तथा च वार्तिककृतोक्तम्। “नह्य