________________
१३८
सम्मतितर्द्धाख्यप्रकरणस्य
त्राहुः । अस्त्ययमवभासः, किन्त्वस्य प्रत्यक्षता चिन्त्या । प्रत्यक्षं हीन्द्रियव्यापारजं ज्ञानम् । तथाचोक्तं भवद्भिः । “ इन्द्रियाणां सत्संप्रयोगे बुद्धिजन्म प्रत्यक्षम्,” प्रत्यक्षविषयत्वात्तदर्थस्य प्रत्यक्षता, नतु साक्षादनिन्द्रियजत्वेन । तत्र घटादेर्बाह्येन्द्रियज्ञानविषयत्वेन सर्वलोकप्रतीताऽध्यक्षता, नत्वेवमात्मनः । अथैवमुच्येत । नात्मनो घटादितुल्या प्रत्यक्षता । घटादेर्हि इन्द्रियजज्ञानविषयत्वेन सा व्यवस्थाप्यते, नत्वात्मा कस्यचित्प्रमाणस्य विषयः । कथं तर्हि प्रत्यक्षः । न ज्ञानविषयत्वात्प्रत्यक्षः, अपि त्वपरोक्षत्वेन प्रतिभासनात्प्रत्यक्ष उच्यते । तच्च केवलस्य, घटादिप्रतीत्यन्तर्गतस्य वाऽपरसाधनं प्राक् प्रतिपादितम् । एतदप्यसत् । यतः अपरसाधनमिति कोऽर्थः । किं चिद्रूपस्य सत्ता, आहोखित् स्वप्रतीतौ व्यापारः । यदि चिद्रूपस्य सत्चैवात्मप्रकाशनमुच्यते, तदा दृष्टान्तो वक्तव्यः । नचात्राशङ्कनीयम्; अपरोक्षे दृष्टान्तान्वेषणं न कर्त्तव्यम् । यतस्तथाविधे विवादविषये सुप्रसिद्धं दृष्टान्तान्वेषणं दृश्यते । न च दीपादिदृष्टान्तः । तत्र हि सजातीयालोकानपेक्षत्वेन खप्रतीतौ प्रकाशकत्वं व्यवस्थापितं कैश्चित् न त्विन्द्रियाग्राह्यत्वम् । तदग्राह्यत्वे सुप्रकाशाः प्रदीपादय इति चक्षुष्मतामिवान्धानामपि तत्प्रतीतिप्रसङ्गः; तस्मान्न स्वप्रकाशाः प्रदीपादयः । यत्त्वालोकान्तरनिरपेक्षत्वम् ; तत्कस्यचिद्विषयस्य काचित्सामग्री प्रकाशिकेति नैकत्र दृष्टत्वेनान्यत्रापि प्रसक्तिचोद्यते । अथ द्वितीयः पक्षः । सोऽप्ययुक्तः । अदर्शनादेव । नहि कश्चित्पदार्थः कर्तृरूपः, करणरूपो वा स्वात्मनि, कर्मणीव सव्यापारो दृष्टः । कथं तर्ह्यनुमेयत्वेऽप्यात्मप्रतीतिः । प्रमात्रन्तराभावात् । एकस्यैव लिङ्गादिकरणमपेक्षाऽवस्थाभेदेन भेदे सत्यदोषः । किंच । प्रमाणाविषयत्वेऽप्यपरोक्षतेत्यस्य भाषितस्य कोऽर्थः । ज्ञातृतया खरूपेणावभासनमिति चेत्, घटादयोऽपि किं पररूपतया प्रतीतिविषयाः । अतो यद् यस्य रूपं तत्प्रमाणविषयत्वेऽपि अवसीयते इति न ज्ञानाविषयता प्रमातुः । तथाहि । तस्य ज्ञातृता, प्रमातृताऽऽत्मस्वरूपता, घटादेः प्रमेयता, ज्ञेयता, घटादिरूपता । अतो यथा तस्य स्वरूपेणावभासनान्न प्रत्यक्षता, तद्वदात्मनोऽपि अभ्युपगमनीयं चैतत् । अन्यथाऽऽत्मादिखसंवेदनस्य प्रत्यक्षस्यापि प्रत्यक्षादिलक्षणव्यतिरिक्तं लक्षणान्तरं वक्तव्यम् । तथाच प्रमाणेयत्ताव्याघातः । केन
1