________________
तत्त्वबोधविधायिनी व्याख्या ।
१३७ अनेनैकस्माद् ब्रह्मणः प्रजोत्पत्तिः प्रत्युक्ता । एकप्रभवत्वे हि सर्वप्राणिनां परस्परं प्रत्यभिज्ञाप्रसङ्गः; एकसन्तानोद्भूतदर्शनस्पर्शनप्रत्यययोरिव । यत्तूक्तम् । आत्मनोऽदृष्टात्मानमाश्रित्य परलोक इति । तदयुक्तम् । तददृष्ट्यसिद्धेः । तथाहि । देहेन्द्रियविषयादिव्यतिरिक्तोऽहंप्रत्ययप्रत्यक्षोपलभ्य एवात्मा । न च चक्षुरादेः करणग्रामस्यातीन्द्रियात्मविषयत्वेन ज्ञानजननाव्यापारात्, कथं तज्जन्यप्रत्यक्षज्ञानविषय इति वक्तुं युक्तम् । स्वसंवेदनप्रत्यक्षग्राह्यत्वाभ्युपगमात् । तथाहि । उपसंहृतसकलेन्द्रियव्यापारस्यान्धकारस्थितस्य चाहमितिज्ञानं सर्वप्राणिनामुपजायमानं स्वसंविदितमनुभूयते, तत्र च शरीराद्यनवभासेऽपि तद्व्यतिरिक्तमात्मस्वरूपं प्रतिभाति । नचैतज्ज्ञानमनुभूयमानमप्यपह्नोतुं शक्यम् । अनु. भूयमानस्याप्यपलापे सर्वापलापप्रसङ्गात् । नाप्येतन्नोत्पद्यते । कादाचित्कत्वविरोधात् । नापि बाह्येन्द्रियव्यापारप्रभवम् । तद्व्यापाराभावेऽप्युपजायमानत्वात् । नापि शब्दलिङ्गादिनिमित्तोद्भूतम् । तदभावेऽप्युत्पत्तिदर्शनात् । नचेदं बाध्यत्वेनाप्रमाणम् । तत्र बाधकसद्भावस्यासिद्धेः । नचेदं सविकल्पकलेनाप्रमाणम् । सविकल्पकस्यापि ज्ञानस्य प्रमाणवेन प्रतिपादयिष्यमाणत्वात् । कदाचिच्च बाह्यन्द्रियव्यापारकालेऽपि यदा घटमहं जानामीत्येवं विषयमवगच्छति, तदा खात्मानमपि । तथाहि। तत्र यथा विषयस्यावभासः कर्मतया, तथाऽऽत्मनोऽप्यवभासः कर्तृतया । नच शरीरादीनां ज्ञातृता। यथा हि शरीराव्यतिरिक्ता घटादयः प्रतीतिकर्मतया प्रतिभान्ति मम घटादयोऽहं घटादीनां ज्ञाता; एवं मम शरीरादयोऽहं शरीरादीनां ज्ञातेति । एवं च प्रतीतिकर्मवेन घटादिभिस्तुल्यत्वान्न शरीरादिसंघातस्य ज्ञातृता । नच ज्ञात्रप्रतिभासः । तदप्रतिभासे हि ममैते भावाः प्रतिभान्ति, नान्यस्येत्येवं प्रतिभासो न स्यात् । तदवभासापह्नवे च घटादेरपि कथं प्रतीतिः। इयांस्तु विशेषः । एकस्य प्रतीतिकर्मताऽपरस्य तत्प्रतीतिकर्तृता, नत्वनवभासः । अतो लिङ्गाद्यनपेक्ष आत्माऽवभासोऽप्यस्तीति कथं तस्यादृष्टिः। नचास्य प्रत्ययस्य बाधारहितस्यापूर्वार्थविषयस्याक्षजविषयावभासकस्येवासन्दिग्धरूपस्य निश्चितरूपत्वेन प्रतिभासमानस्य स्मृतिरूपताऽप्रामाण्यं वा प्रतिपादयितुं युक्तम् । अतोऽस्यामपि. प्रतीताववभासमानस्यापरोक्षतैव युक्ता, न प्रमाणान्तरगम्यता। यदप्य.
१८