________________
१३६
सम्मतितकाख्यप्रकरणस्यव्यभिचारः । यथा गोमयादपि शालूकः, कश्चित् समानजातीयादपि शालूकादेव; तथा केचित् प्रज्ञामेधादयस्तदभ्यासात्; केचित् तु रसायनोपयोगात्; अपरे मातापितृशुक्रशोणितविशेषादेवेति । सोऽपि न सम्यग् । तत्रापि समानजातीयपूर्वाभ्याससंभवात् । अन्यथा समानेऽपि रसायनाद्युपयोगे यमलकयोः कस्यचित् कापि प्रज्ञामेधादिकमिति प्रतिनियमो न स्यात् । रसायनाधुपयोगस्य साधारणत्वादिति। नच प्रज्ञादीनां जन्मादौ, रसायनाभ्यासे च विशेषः । शालूकगोमयजन्यस्य तु शालूकादेस्तदन्यस्माद्विशेषो दृश्यते, कचिजातिस्मरणं च दर्शनमिति न युक्ता दृष्टकारणादेव मातापितृशरीरात् प्रज्ञामेधादिकार्यविशेषोत्पत्तिः । नच गोमयशालूकादेर्व्यभिचारविषयत्वेन प्रतिपादितस्यात्यन्तवैलक्षण्यम्। रूपरसगन्धस्पर्शवत्पुद्गलपरिणामत्वेन द्वयोरपि अवैलक्षण्यात्। विज्ञानशरीरयोश्चान्तहिर्मुखाकारविज्ञानग्राह्यतया स्वपरसंवेद्यतया स्वसंवेदनबाह्यकरणादिजन्यप्रत्ययानुभूयमानतया च परस्पराननुयाय्यनेकविरुद्धधर्माध्यासतोऽत्यन्तवैलक्षण्यस्य प्रतिपादितत्वात्, नोपादानोपादेयभावो युक्तः । शरीरवृध्यादेश्चैतन्यवृयादिलक्षण उपादानोपादेयभावधर्मोपलम्भः प्रतिपाद्यते। असौ महाकायस्यापि मातङ्गाजगरादेचैतन्याल्पत्वेन व्यभिचारीति न तद्रावसाधकः। यस्तु शरीरविकाराच्चैतन्यविकारोपलम्भलक्षणस्तद्धर्मभावः प्रतिपाद्यतेऽसावपि सात्त्विकसत्त्वानामन्यगतचित्तानां वा छेदादिलक्षणशरीरविकारसद्भावेऽपि तच्चित्तविकारानुपलब्धेरसिद्धः । दृश्यते च सहकारिविशेषादपि जलभूम्यादिलक्षणाद् बीजोपादानस्याङ्कुरादेविशेष इति सहकारिकारणत्वेऽपि शरीरादेविशिष्टाहाराद्युपयोगादौ, यौवनावस्थायांवा शास्त्रादिसंस्कारोपात्तविशेषपूर्वज्ञानोपादानस्य विज्ञानस्य विवृद्धिलक्षणो विशेषो नासंभवी। यदप्युक्तम् । अनादिमातापितृपरम्परायां तथाभूतस्यापि बोधस्य व्यवहितमातापितृगतस्य सद्भावात् ततो वासनाप्रबोधेन युक्त एव प्रज्ञामेधादिविशेषस्य संभव इति। तदप्ययुक्तम् । अनन्तरस्यापि मातापितृपाण्डित्यस्य प्रायः प्रबोधसंभवात्। ततश्चक्षुरादिकरणजनितस्य स्वरूपसंवेदनस्य चक्षुरादिज्ञानस्य वा युगपत् क्रमेण चोत्पत्तौ मयैवोपलब्धमेतदिति प्रत्यभिज्ञानं सन्तानान्तरतदपत्यज्ञानानामपि स्यात् । नच मातापितृज्ञानोपलब्धेस्तदपत्यादेः कस्यचित्प्रत्यभिज्ञानमुपलभ्यते।