________________
तत्त्वबोधविधायिनी व्याख्या । ल्पकप्रत्यक्षबलादूहाख्यप्रमाणाहा देशकालव्याप्त्या यथोक्तलक्षणस्य हेतोः प्रतिबन्धग्रहणे प्रवृत्तिरनुमानस्येति न व्याहतिः प्रकृतस्येति। एतदपि निरस्तम् ; के चित्प्रज्ञादय इति इत्यादि। नच प्रज्ञामेधादयः शरीरस्वभावान्तर्गता इत्यादि चोद्यं युक्तम् । तदन्तर्गतत्वेऽपि परिहारसंभवादन्वयव्यतिरेकाभ्यां तेषां मातापित्रोः पितृशरीरजन्यत्वस्य पितृशरीरं तर्हि हेतुभेदान्न भेदो मातापितृशरीरादपत्यप्रज्ञादीनाम् । अयमपरो बृहस्पतिमतानुसारिण एव दोषोऽस्तु, या कार्यभेदेऽपि कारणभेदं नेच्छति । अस्माकं तु हर्षविषादाद्यनेकविरुद्धधर्माकान्तस्य विज्ञानस्यान्तर्मुखाकारतया वेद्यस्य रूपरसगन्धस्पर्शादियुगपद्भाविबालकुमारयौवनवृद्धावस्थाद्यनेकक्रमभाविविरुद्धधर्माध्यासिततच्छरीरादेर्बाह्येन्द्रियप्रभवविज्ञानसमधिगम्या दः सिद्धएव । विरुद्धधर्माध्यासः, कारणभेदश्च पदार्थानां भेदकः । स च जलानलयोरिव शरीरविज्ञानयोर्विद्यत एवेति कथं न तयोर्भेदः । तद्भेदादप्यभेदे ब्रह्माद्वैतवादापत्तेस्तदवस्थ एव पृथिव्यादितत्त्वचतुष्टयाभावापत्त्या व्यवहारोच्छेदः। अथ वा मातापितृपूर्वजन्मैकसामग्रीजन्यमेतत् कार्यम् । एतत् न दोषोऽव्यतिरिक्तपक्षेऽपि विज्ञानशरीरयोः। पूर्वमप्युक्तं विलक्षणादप्यन्वयव्यतिरेकाभ्यां मातापितृशरीराद्विज्ञानमुपजायताम् ; नहि कारणाकारमेव सकलं कार्यमिति । तदप्यसत् । यतो नहि कारणविलक्षणं कार्य न भवतीत्युच्यते, अपि तु तदन्वयव्यतिरेकानुविधानात्तत्कार्यत्वम्। तथाहि । यद्यहिकारान्वयव्यतिरेकानुविधायि तत्तत्कार्यमिति व्यवस्थाप्यते । यथागुरुकर्पूरोणादिदाह्यदाहकपावकगतसुरभिगन्धाद्यन्वयव्यतिरेकानुविधायी धूमस्तकार्यतया व्यवस्थितः । एकसन्तत्यनुपतितशास्त्रसंस्कारादिसंस्कृतप्राक्तनविज्ञानधर्मान्वयव्यतिरेकानुविधायि च प्रज्ञामेधाधुत्तरविज्ञानमिति कथं न तत्कार्यमभ्युपगम्यते। तदनभ्युपगमे धूमादेरपि प्रसिद्धवयादिकार्यस्य तत्कार्यत्वाप्रसिद्धिरिति पुनरपि सकलव्यवहारोच्छेदः ।।
"तस्माद्यस्यैव संस्कारं नियमेनानुवर्त्तते ।
तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम्" ॥१॥ प्रतिपादितश्च प्रमाणतः प्रतिनियतः कार्यकारणभावः सर्वज्ञसाधने कुसमयविसासणमितिपदव्याख्यां कुर्वद्भिर्न पुनरिहोच्यते । योऽपि शालूकदृष्टान्तेन