________________
सम्मतितकाख्यप्रकरणस्य
प्रत्यक्षमभ्युपगतम् । सर्वथा सामान्यद्वारण व्यक्तीनामतद्रूपपरावृत्तव्यक्तिरूपेण वा तासां प्रतिबन्धोऽभ्युपगन्तव्यः । अन्यथाऽप्रतिबद्धादन्यतोऽन्यप्रतिपत्तावतिप्रसङ्गात् । प्रतिबन्धप्रसाधकं च प्रमाणमवश्यमभ्युपगमनीयम् । अन्यथाऽगहीतप्रतिबन्धत्वादन्यतोऽन्यप्रतिपत्तावपि प्रसङ्गस्तदवस्थ एव। यत्र गृहीतप्रतिबन्धो ऽसावर्थ उपलभ्यमानः साध्यसिद्धिं विदधाति, तद्धर्मता तस्य पक्षधर्मत्वस्वरूपा; तद्ग्राहकं च प्रमाणं प्रत्यक्षमनुमानं वा । तदुक्तं धर्मकीर्तिना । “पक्षधर्मतानिश्चयः प्रत्यक्षतोऽनुमानतो वा" अतो लोकप्रसिद्धतान्त्रिकलक्षणलक्षितानुमानयोर्भेदाभावादतीन्द्रियपरलोकाद्यर्थसाधकत्वमपि तस्यैवेति तत्प्रामाण्यानभ्यु. पगमे इहलोकस्यापि अभ्युपगमाभावप्रसङ्गः । नच किमत्र निर्विकल्पकं मानसं योगिप्रत्यक्षमूहो वा प्रतिबन्धनिश्वायकम् , प्रतिबन्धोऽपि नियतसाहचर्यलक्षणः, कार्यकारणभावादिति चिन्ताऽत्रोपयोगिनी । धूमादमिप्रतिपत्तिवत् प्रज्ञामेधादिविज्ञानकार्यविशेषान्निजजन्मान्तरविज्ञानस्वभावपरलोकप्रतिपत्तिसिद्धेः । अतोऽनुमानाप्रामाण्यप्रतिपादनाय पूर्वपक्षवादिना यथुक्तिजालमुपन्यस्तं, तन्निरस्तं द्रष्टव्यम् । प्रतिपदमुच्चार्य न दूष्यते, ग्रन्थगौरवभयात् । यदप्युक्तम् । परलोके प्रत्यक्षस्याप्रवृत्तेरापत्तिरेवेयमिहजन्मान्यथाऽनुपपत्त्या परलोकसद्भाव इति । तदपि न सम्यक् । पूर्वानुसारेण सर्वस्य नियतप्रत्ययस्य प्रवृत्तेरनुमानत्वप्रतिपादनात्। अविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वान्नात्रानुमानमिति चेत् ; नन्वेवं तदेवाद्वैतं शून्यत्वं वा कस्य केन दोषाभिधानम्। तस्मात् संव्यवहारकारिणा प्रत्यक्षेणोहेन वा प्रतिबन्धसिद्धिरिति कथं नानुमानात्परलोकसिद्धिः । यदप्युक्तम् । मातापितृसामग्रीमात्रेणेहजन्मसंभवान्न तज्जन्मव्यतिरिक्तभूतपरलोकसाधनं युक्त मिति । तदपि प्रतिविहितमेव । समनन्तरप्रत्यक्षस्य भावात् । स्वप्नादिप्रत्ययवन्न प्रत्यक्षाद् बाह्यार्थसिद्धिरपीति बौद्धाभिमतपक्षसिद्धिप्रसङ्गः । अतस्तत्त्वात् । यदपि प्रतिपादितम् ; सन्निहितमात्रविषयत्वात् प्रत्यक्षस्य देशकालव्याप्त्या प्रतिबन्धग्रहणासामर्थ्यमिति । तदपि न किञ्चित् । एवं सति अतिसन्निहितविषयत्वेन प्रत्यक्षस्य खरूपमात्र एवं प्रवृत्तिप्रसङ्ग इति तदेव बौद्धाद्यभिमतं खसंवेदनमात्रं सर्वव्यवहारोच्छेदकारि प्रसक्तमिति प्रतिपादितखात् । तस्माल्लोकव्यवहारप्रवर्तनक्षमसविक