________________
१७१
सम्मतिताख्यप्रकरणस्यक्षेत्रज्ञैः कृत्यम् ?, न किञ्चित्प्रमाणसिद्धतां मुक्त्वा । नत्वेवमनिष्टा। यथेन्द्रियाधिष्ठायकः क्षेत्रज्ञस्तदधिष्ठायकश्वेश्वरः, एवमन्योऽपि तदधिष्ठायकोऽस्तु । भवत्वनिष्टा, यदि तत्साधकं प्रमाण किञ्चिदस्ति, नत्वनिष्टासाधकं किञ्चित्प्रमाणमुत्पश्यामः । तावत एवानुमानसिद्धत्वात् । आगमोऽप्यस्मिन् वस्तुनि विद्यते । तथा च भगवान् व्यासः
"हाविमौ पुरुषौ लोके क्षरश्वाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः" ॥२॥ इति । तथा श्रुतिश्च तत्प्रतिपादिका उपलभ्यते । “विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाह्रुत विश्वतस्पात्।सं बाहुभ्यां धर्मति संपतत्रै_वाभूमी जुनयन् देव एक आस्ते” इत्यादि । नच स्वरूपप्रतिपादकानामप्रामाण्यम् । प्रमाणजनकत्वस्य सद्भावात् । तथाहि । प्रमाणजनकत्वेन प्रमाणस्य प्रामाण्यं, न प्रवृत्तिजनकत्वेन; तच्चेहास्त्येव । प्रवृत्तिनिवृत्ती तु पुरुषस्य सुखदुःखसाधनत्वाध्यवसाये समर्थस्यार्थित्वाद्भवत इति । अथ विधावङ्गत्वादमीषा प्रामाण्यं, न स्वरूपार्थत्वादिति चेत् । तदसत् । स्वार्थप्रतिपादकत्वेन विध्यङ्गत्वात् । तथाहि । स्तुतेः खार्थप्रतिपादकलेन प्रवर्तकत्वम्, निन्दायास्तु निवर्तकत्वमिति।अन्यथा हि तदर्थापरिज्ञाने विहितप्रतिषिद्धेष्वविशेषेण प्रवृत्तिनिवृत्तिर्वा स्यात् । तथा विधिवाक्यस्यापि स्वार्थप्रतिपादनद्वारेणैव पुरुषप्रेरकत्वं दृष्टम् , एवं स्वरूपपरेष्वपि वाक्येषु स्यात्।वाक्यस्वरूपतायाअविशेषात् , विशेषहेतोश्वाभावादिति।तथा स्वरूपार्थानामप्रामाण्ये; मेध्या आपो दर्भाः पवित्रम्, अमेध्यमशुचीत्येवंस्वरूपापरिज्ञाने, विध्यङ्गतायामप्य. विशेषेण प्रवृत्तिनिवृत्तिप्रसङ्गः।नचैतदस्ति, मेध्येष्वेव प्रवर्त्तते, अमेध्येषु च निवर्त्तत इत्युपलम्भात् । तदेवं स्वरूपार्थेभ्योवाक्येभ्योऽर्थस्वरूपावबोधे सति इष्टे प्रवृत्तिदर्शनात्, अनिष्टे च निवृत्तेरिति ज्ञायते-स्वरूपार्थानांप्रमाजनकत्वेन प्रवृत्तौ,निवृत्तौ वा विधिसहकारित्वमिति।अपरिज्ञानात्तु प्रवृत्तावतिप्रसङ्गः। अथ स्वरूपार्थानांप्रामाण्ये प्रावाणःप्लवन्त इत्येवमादीनामपियथार्थता स्यात्।न।मुख्य बाधकोपपत्तेः। यत्र हि