________________
तस्वबोधविधायिनी व्याख्या।
१७३ मुख्य बाधकं प्रमाणमास्त तत्रोपचारकल्पना, तदभावे तुप्रामाण्यमेव। नचेश्वरसद्भावप्रतिपादनेषु किश्चिदस्ति बाधकमिति स्वरूपे प्रामाण्यमभ्युपगन्तव्यामित्यागमादपि सिद्धप्रामाण्यात्तदवगमः । ईश्वरस्य च सत्तामात्रेण स्वविषयग्रहणप्रवृत्तानां क्षेत्रज्ञानामधिष्ठायकता। यथा स्फटिकादीनामुपधानाकारग्रहणप्रवृत्तानांसवितृप्रकाशः। यथा तेषां सावित्रं प्रकाशं विना नोपधानाकारग्रहणसामर्थ्य, तथेश्वरं विना क्षेत्रविदां न खविषयग्रहणसामर्थ्यमिति अस्ति भगवानीश्वरः सर्ववित् । इतश्चासौ सर्ववित् । ज्ञानस्य सन्निहितसदर्थप्रकाशकत्वं नाम स्वभावः । तस्यान्यथाभावः कुतश्विदोषसद्भावात्। एतत्तावद्रूपं चक्षुराद्याश्रयाणां ज्ञानानाम् । यत्पुनश्चक्षुरनाश्रितं नच रागादिमलावृतम्; तस्य विषयप्रकाशनखभावस्य विषयेषु किमिति प्रकाशनसामर्थ्यविघातः?; यथा दीपादेरपवरकान्तर्गतस्य । ननु रागादेरावरणस्य कथं तत्राभावोऽवगतः। तत्प्रतिपादकप्रमाणाभावात् । प्रमाणस्याभावे संशयोऽ. स्तु रागादीनाम्, नत्वभावः। विपर्यासकारणा रागादयः, एषां कारणाभावे कथं तत्र भावः?, विपर्यासश्चाधर्मनिमित्तः । नच भगवत्यधर्मः। तत्सद्भावे वा इत्थंविधस्यास्मदादिभिश्चिन्तयितुमशक्यस्य कार्यस्य कथं तस्मादुत्पादः?। अनेकादृष्टकल्पनाप्रसङ्गात्। किञ्च । रागादय इष्टानिष्टसाधनेषु विषयेषूपजायमाना दृष्टाः। नच भगवतः कश्चिदिष्टानिष्टसाधनो विषयः। अवाप्तकामत्वात्। या तु प्रवृत्तिः शरीरादिसर्गे सा कैश्चित् क्रीडार्थमुक्ता। सा चावाप्तप्रयोजनानामेव भवति, नत्वन्येषाम्।अतो यदुक्तं वार्तिककृता-"क्रीडा हि रतिमविन्दतां; न च रत्यर्थी भगवान् , दुःखाभावात्"। तत्प्रतिक्षिप्तम् । न हि दुःखिताः क्रीडासु प्रवर्त्तन्ते; तस्मात् क्रीडार्थी प्रवृत्तिः।अन्ये मन्यन्ते-कारुण्याद्भगवतः प्रवृत्तिः। नन्वेवं केवलः सुखरूपःप्राणिसर्गोऽस्तु । नैवम् । निरपेक्षस्य कर्तृत्वेऽयं दोषः, सापेक्षत्वे तु कथमेकरूपः सर्गः ?। यस्य यथाविधः कर्माशयः पुण्यरूपोऽपुण्यरूपो वा तस्य तथाविधफलोपभोगाय तत्साधनान् शरीरादींस्तथाविधांस्तत्सापेक्षः सृजतीति । नचेश्वरत्वव्याघातः सापेक्षत्वेऽपि; यथा सवितृप्रकाशस्य स्फटिकाद्यपेक्षस्य, यथा वा करणाधिष्ठायकस्य क्षेत्रज्ञस्य सापेक्षत्वेऽपि तेषु तस्येश्वरताविघात इति केचित् । अन्ये मन्यन्ते-यथा प्रभुः सेवाभेदानुरोधेन फलभेदप्रदो नाप्रभुः, तथेश्वरोऽपि कर्माशयापेक्षः फलं जन