________________
१७४
सम्मतिताख्यप्रकरणस्ययतीत्यनीश्वर इति न युज्यते वक्तुम् । भाष्यकारः कारुण्यप्रेरितस्य प्रवृत्तिमाह। तन्निमित्तायामपि प्रवृत्तौ न वार्तिककारीयं दूषणं संसृजेत् शुभमेवैकमनुकम्पाप्रयोजित इत्येवमादि । यतः कर्माशयानां कुशलाकुशलरूपाणां फलोपभोगं विना न क्षय इति भगवानवगच्छंस्तदुपभोगाय प्राणिसर्ग करोति । उपभोगः कर्मफलस्य शरीरादिकृतः; कस्यचित्त्वशुभस्य कर्मणःप्रायश्चित्तात् प्रक्षयः। तत्रापि खल्पेन दुःखोपभोगेन दीर्घकालदुःखप्रदं कर्म क्षीयते, न तु फलमदत्त्वा कर्मक्षयः। येषामपि मतं सम्यग्ज्ञानाद् विपर्यासनिवृत्तौ, तज्जन्यक्लेशक्षये, कर्माशयानां सद्भावेऽपि सहकार्यभावान्न शरीराद्याक्षेपकता; तत्रापि कुशलं कर्म, समाधिं वाऽन्तरेण न तत्त्वज्ञानोत्पत्तिः; तयोस्तु संचये प्रवृत्तस्य यमनियमानुष्ठानेऽनेकविधदुःखोत्पत्तिः; अतः कथं केवलसुखिरूपःप्राणिसर्गः नारकतिर्यगादिसर्गोऽपि अकृतप्रा. यश्चित्तानां तत्रत्यदुःखानुभवे पुनर्विशिष्ट स्थानावाप्तावभ्युदयहेतुरिति सिद्धं दुःखिप्राणिसृष्टावपि करुणया प्रवर्त्तनम् । तन्नासर्वज्ञत्वं विशेषः। नापि कृत्रिमज्ञानसंबन्धित्वम्। तज्ज्ञानस्य प्रत्यर्थनियमाभावात् । यज्ज्ञानमनित्यं तच्छरीरादिसापेक्षं प्रत्यर्थनियतं तत् , ज्ञानस्य तु शरीराद्यभावे कुतः प्रत्यर्थनियतता ?।भवतु तज्ज्ञानं प्रतिनियतविषयम् ; न तस्य प्रतिनियतविषयत्वेऽस्माकं पक्षक्षतिः। कथं न क्षतिः?। तस्य तथाविधत्वे युगपत् स्थावरानुत्पादप्रसङ्गः । तदनुत्पादे च कर्तृत्वासिद्धिः। तदसिद्धौ कस्य कृत्रिमज्ञानसंबन्धिताविशेषः। अथ युगपत्कार्यान्यथानुपपत्त्या प्रत्यर्थनियतामनेका बुद्धिमीश्वरे प्रतिपद्येत; तत्रापि सन्तानेन वा तथाभूता बुद्धयः, युगपद्दा भवेयुः। प्राच्ये विकल्पे, पुनरपि युगपत्कार्यानुत्पादप्रसङ्ग। युगपदुत्पत्तौ वा बुद्धीनां शरीरादियोगस्तस्यैषितव्यः; स च पूर्व प्रतिक्षिप्तः । अथ कार्यस्य बहुत्वमहत्त्वाभ्यां बहवो बुद्धिमन्तः कर्त्तारो भवन्तु, नत्वेकः सर्वज्ञः सर्वशक्तियुक्तः। नन्वेतस्मिन्नपि पक्षे ईश्वरानेकत्वप्रसङ्ग। भवतु, को दोषः ? । व्याहतकामानां खतन्त्राणामेकस्मिन्नर्थेऽप्रवृत्तिः । अथ तन्मध्येऽन्येषामेकायत्तता तदा स एवेश्वरः, अन्ये पुनस्तदधीना अनीश्वराः। अथ स्थपत्यादीनां महाप्रासादादिकरणे यथैकमत्यं, तद्वदत्रापि । नैतदेवम् । तत्र कस्यचिदाभप्रायेण नियमितानामैकमत्यम् ; नत्वत्र बहूनां नियामकः कश्चिदस्ति । सद्भावे वा स एवेश्वरः। एवं यस्य