________________
तत्त्वबोधविधायिनी व्याख्या ।
१७५ यस्य विशेषस्य साधनाय वा, निराकृतये वा प्रमाणमुच्यते, तस्य तस्य पूर्वोक्तेन न्यायेन निराकरणं कर्त्तव्यम् । तन्न विशेषविरुद्धता ईश्वरसाधकस्य । प्रसङ्गविपर्यययोरप्यनुत्पत्तिः । प्रसङ्गस्य व्याप्त्यभावात् , तन्मूलत्वात् तद्विपर्ययस्य तथे. ष्टविघातकृतश्च । यच्च नित्यत्वादकर्तृकत्वमुच्यते शाक्यैः; तदपि क्षणभङ्गभङ्गे प्रतिक्षिप्तम् । यदपि व्यापार विना न कर्तृत्वम् ; तदपि ज्ञानचिकीर्षाप्रयत्नलक्षणस्य व्यापारस्योक्तत्वान्निराकृतम् । वार्त्तिककारेणापरं प्रमाणद्वयमुपन्यस्तं तत्सिद्धये-महाभूतादिव्यक्तं चेतनाधिष्ठितं प्राणिनां सुखदुःखनिमित्तं, रूपादिमत्त्वात् तुर्यादिवत्, तथा पृथिव्यादीनि महाभूतानि बुद्धिमत्कारणाधिष्ठितानि स्वासु धारणाघासु क्रियासु प्रवर्त्तन्ते, अनित्यत्वाद्,वास्यादिवदिति।अविद्धकर्णस्तु तसिद्धये इदं प्रमाणद्वयमाह-वीन्द्रियग्राह्याग्राह्यं विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकम्; खारम्भकावयवसन्निवेशविशिष्टत्वात् ; घटादिवद्, वैध\ण परमाणव इति । तत्र द्वाभ्यां दर्शनस्पर्शनेन्द्रियाभ्यां ग्राह्यं महदनेकद्रव्यवत्त्वरूपाद्युपलब्धिकारणोपेतं, पृथिव्युदकज्वलनसंज्ञकं त्रिविधं द्रव्यं द्वीन्द्रियग्राह्यम् । अग्राह्यं वाय्वादि, यस्मान्महत्त्वमनेकद्रव्यवत्त्वं रूपसमवायादिश्वोपलब्धिकारणमिष्यते, तच्च वाय्वादौ नास्ति। यथोक्तम्"महत्यनेकद्रव्यवत्त्वाद् रूपाच्चोपलब्धिः";"-रूपसंस्काराभावाद्वा वाय्वनुपलब्धिः" । रूपसंस्कारो रूपसमवायः।यणुकादीना वनुपलब्धिरमहत्त्वादिति । अन्ये तु वायोरपि स्पर्शनेन्द्रियप्रत्यक्षग्राह्यत्वमिच्छन्ति । द्वीन्द्रियग्राह्यलापेक्षयातु रूपसमवायाभावादनुपलब्धिरित्युक्तम् ;तत्र सामान्येन द्वीन्द्रियग्राह्याग्रायस्य बुद्धिमत्कारणपूर्वकत्वसाधने सिद्धसाध्यतादोषो घटादिषु उभयसिद्धेः विवादाभावात्; अभ्युपेतबाधा चाण्वाकाशादीनां तथाऽनभ्युपगमात, तेषां च नित्यत्वात् प्रत्यक्षादिबाधा; अतस्तदर्थ विमत्यधिकरणभावापन्नग्रहणम्। विविधा मतिर्विमतिर्विप्रतिपत्तिरिति यावत्, तस्याऽधिकरणभावापन्नं विवादास्पदीभूतमित्यर्थः। एवं च सति शरीरोन्द्रियभुवनादय एवात्र पक्षीकृता इति नाण्वादिप्रसङ्गः । कारणमात्रपूर्वकत्वे. ऽपि साध्ये सिद्धसाध्यता मा भूदिति बुद्धिमत्कारणग्रहणम् । साङ्ख्यं प्रति मतुबर्थानुपपत्तेर्न सिद्धसाध्यता । अव्यतिरिक्ता हि बुद्धिः प्रधानात् साङ्ख्यैरुच्यते । नच तेनैव तदेव तहहवति।स्वारम्भकाणामवयवानां संनिवेशःप्रचयात्मकः संयोगः,