________________
१७६
सम्मतिताख्यप्रकरणस्यतेन विशिष्टं व्यवच्छिन्नं तहावस्तस्मात् । अवयवसन्निवेशविशिष्टत्वं गोत्वादिभिर्व्यभिचारीति अतः स्वारम्भग्रहणम् । गोत्वादीनि तु द्रव्यारम्भकावयवसन्निवेशेन विशिष्यन्ते, न तु वारम्भकावयवसन्निवेशेनेति। तेन योऽसौ बुद्धिमान्, स ईश्वर इत्येकम्। द्वितीयं तु तनुभुवनकरणोपादानानि चेतनाचेतनानि चेतनाधिष्ठितानि खकार्यमारभन्त इति प्रतिजानीमहे; रूपादिमत्त्वात्, यद्यद्रूपादिमत्तत्तच्चेतनाधिष्ठितं स्वकार्यमारभते, यथा तन्त्वादि; रूपादिमञ्च तनुभुवनकरणादिकारणं, तस्माच्चेतनाधिष्ठितं स्वकार्यमारभते । योऽसौ चेतनस्तनुभुवनकरणोपादानादेरधिष्ठाता स भगवानीश्वर इति । उद्द्योतकरस्तु प्रमाणयति-भुवनहेतवः प्रधानपरमाण्वदृष्टाः स्वकार्योत्पत्तावतिशयबुद्धिमन्तमधिष्ठातारमपेक्षन्ते; स्थित्वा प्रवृत्ते. स्तन्तुतुर्यादिवदिति। प्रशस्तमतिस्त्वाह-सर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः, उत्तरकालं प्रबुद्धानां प्रत्यर्थनियतत्वात्।अप्रसिद्धवाग्व्यवहाराणां कुमाराणां गवादिषु च प्रत्यर्थनियतो वाग्व्यवहारो यथा मात्राघुपदेशपूर्वक इति । प्रबुद्धानां प्रत्यर्थ नियतत्वादिति प्रबुद्धानां सतां प्रत्यर्थ नियतत्वादित्यर्थः। यदुपदेशपूर्वकश्च सर्गादौ व्यवहारः, स ईश्वरः; प्रलयकालेऽप्यलुप्तज्ञानातिशय इति सिद्धम् । तथाऽपराण्यप्यु
द्योतकरेण तसिद्धये साधनान्युपन्यस्तानि-बुद्धिमत्कारणाधिष्ठितं महाभूतादिकं व्यक्तं सुखःदुखनिमित्तं भवति, अचेतनत्वात्, कार्यत्वात् , विनाशित्वाद्, रूपा. दिमत्त्वाद्, वास्यादिवदिति। अथ भवत्वस्माद्धेतुकदम्बकादीश्वरस्य सर्वजगद्धेतुत्वसिद्धिः,सर्वज्ञत्वं तु कथं तस्य सिद्धम् ?; येनासौ निःश्रेयसाभ्युदयकामानां भक्तिविषयतां यायात् । जगत्कर्तृसिद्धेरेवेति ब्रूमः । तथाचाहुः प्रशस्तमतिप्रभृतयः-कर्तुः कार्योपादानोपकरणप्रयोजनसंप्रदानपरिज्ञानात् । इह हि यो यस्य कर्ता भवति, स तस्योपादानादीनि जानीते; यथा कुलालः कुण्डादीनां कर्ता, तदुपादानं मृत्पिण्डम् , उपकरणानि चक्रादीनि, प्रयोजनमुदकाहरणादि, कुटुम्बिनं च संप्रदानं जानीत इत्येतत् सिद्धम् ;तथेश्वरः सकलभुवनानां कर्ता, स तदुपादानानि परमाण्वादिलक्षणानि, तदुपकरणानि धर्मादक्कालादीनि, व्यवहारोपकरणानि सामान्यविशेषसमवायलक्षणानि, प्रयोजनमुपभोग, संप्रदानसंज्ञकांश्च पुरुषान् जानीत इति; अतः सिद्धमस्य सर्वज्ञत्वमिति। अत एव नात्रैतत्प्रेरणीयम्।सर्वज्ञपूर्वकत्वे क्षित्यादीनां सा